संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
त्रयोदशी पद्धतिः

भिक्षाटनकाव्यम् - त्रयोदशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


कन्दर्पमुक्तशितबाणपरम्पराभिः
शंभोः शिरः प्रहृतचित्तमवेक्ष्य सख्यः ।.
नारीजनं निजगदुर्वचनानि यानि
रम्याणि सन्तु रसिकश्रुतिपारणाय ॥१॥

मुग्धे स्मरार्ति पिशुनं वसनाञ्चलेन
रोमाञ्चमाव्रण (वृणु) पुरः पुरसुन्दरीणाम् ।
लोकः परस्खलनदर्शनदीप्य(र्घ)चक्षु-
र्जात्यन्ध एव निजदोषनिरीक्षणेषु ॥२॥

यत्पूर्वमात्तविनयाञ्जलिरीशपार्श्वे
भूयाः सदेति मुहुरालि मयापदिष्टम् ।
तस्यावधीरणफलं वलयच्युतिस्ते
क्षेमंकरो भवति किं न शिवे प्रणामः ॥३॥

कामं विलोकय कृशोदरि कामशत्रुं
मा भूदयं तव मुखाम्बुरुहे विकासः ।
आविर्भवत्यभि (हि)मभासि विकासमात्रा-
त्तत्प्रेयसीति नलिनी न किमाह लोकः ॥४॥

आमीलनेन कमलस्य मधुद्य(व्रतानां
स्वच्छन्दचारविहृतिस्त्वयि सान्यथैव ।
दुर्लेपिशंकरमुखाम्बुरुहेऽपि लीनः
शक्तोऽनुगन्तुमपरत्र कटाक्षभङ्गः ॥५॥

वासच्यु(श्च्यु)तं तव सखीत्यभिधीयमाना
नीलं हरस्य गलमूलमिति ब्रवीषि ।
उन्मादिनां जगति नूनमपार्थजल्पा-
दल्पान्तराणि मदनातुरभाषितानि ॥६॥

शंभोः समीपमुपगच्छसि निर्विशङ्कं
मुग्धे मनोभवभवेन मतिभ्रमेण ।
हाराहिमस्य न निरूपयसि क्षुधार्तं
द(दु)ग्धं च ते मुखमिदं शशिनिर्विशेषम् ॥७॥

स्रस्तोत्तरीयमधुना कुचमण्डलं ते
पाहि (णि)द्वयेन पिदधासि यदम्बुजाक्षि ।
तत्साधु संप्रति पुनर्वलयोज्झितस्य
तस्याभि... सखि केन तिरस्क्रियास्तु ॥८॥

नेत्रद्वयं हरविलोकनलाभमान्य
सर्वेतरेन्द्रियगतौ गमितेव शक्तिः ।
स्पर्शं न वेत्सु(त्सि) मुहरङ्गुलितापि(डि)तापि
नाह्वानशब्दमपि यत्सखि मे शृणोषि ॥९॥

सर्वाङ्गवीक्षणमनोभवभाग्यहीना
नूनं त्वमस्य गिरिशस्य किमद्य कुर्मः ।
वक्षःस्थले प्रथममस्य दृशं निमग्ना-
मुद्धर्तुमेव निपुणासि न यत्नतोऽपि ॥१०॥

नेवाद्य कान्तिविलयो वपुषीश्वरस्य
संकोचनं न तव नेत्रयुगे प्रसङ्गि ।
अभ्यासमद्य सखि पश्यसि रोषरूक्षं
पश्यन्तु ता अपि वृषध्वजमादरेण ॥११॥

ईर्ष्याकठोरमसकृत्त्वमवेक्षसे कि-
मन्योऽपि तं कमपि पश्यतु भीरुवर्गः ।
मोहेन शंकरविलोकनसंभवेन
श्वासं न किंचिदपि मुञ्चसि तारकाक्षि ॥१२॥

भृङ्गास्तदीयवरसौरभलाभलोला-
द्यत्नेन(यत्ते न)संप्रति तवाननमाश्रयन्ते ।
मा1 मे खलेति मम वा वनमाकलय्य
बद्धा तदा क्व गलिता मणिमेखला ते ॥१३॥

यो मूढधीः स्वयमयं पुनराप्तवाक्यं
न श्रद्दधीत यदि तस्य विपत्तिरेव ॥१४॥

काञ्चीगुणः पततु काममसौ नितम्बा-
देतानि रत्नवलयानि च बाहुयुग्मात् ।
एतत्तु मे व्यसनमालि सहैव तैस्तै-
र्लज्जामयस्य सहजाभरणस्य पातः ॥१५॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्योक्तिपतिस्त्रयोदशी।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP