संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५७ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५७ Translation - भाषांतर श्रीराम उवाच ।सत्यमेतत्त्वया ब्रह्मन्यदुक्तं सूक्तिसुन्दरम् ।अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतकृत् ॥१॥सर्वेश्वरः सर्वगश्च चिन्मात्रममलं पदम् ।स्थानं भुवि वपुर्देवः सर्वभूतान्तरस्थितः ॥२॥हदयंगमतां प्राप्तमिदानीं ब्रह्म मे विभो ।त्वदुक्तिभिर्यथाम्भोदधाराभिर्भूभृदव्यथः ॥३॥औदासीन्यादनिच्छत्वान्न भुङ्क्ते न करोति च ।समग्रालोककारित्वाद्भुंक्ते देवः करोति च ॥४॥किंत्वयं भगवन्स्फारः संशयो मे हृदि स्थितः ।तं त्वं छिन्धि गिरा ब्रह्मन्दीधित्येन्दुर्यथा तमः ॥५॥इदं सत्तदिदं वाऽसदयं सोऽहमिदं नतु ।अयमेको द्वितीयोऽयमित्यादिकलनामयम् ॥६॥एकस्मिन्विद्यतेऽध्वान्ते नीहार इव भास्करे ।इदं प्रथममेवाच्छे कथमात्मनि संस्थितम् ॥७॥श्रीवसिष्ठ उवाच ।सिद्धान्तकाल एवास्य संप्रश्नस्योत्तरं स्थिरम् ।कथयिष्यामि ते राम येन ज्ञास्यसि तत्त्वतः ॥८॥मोक्षोपायस्य सिद्धान्तमसंप्राप्य न राघव ।श्रोतुं प्रश्नोत्तराण्येतान्यलं योग्यो भविष्यसि ॥९॥कान्तागीतगिरां राम तरुणो भाजनं यथा ।प्रश्नानामुत्तमोक्तीनां पुण्यकृद्भाजनं तथा ॥१०॥वृथा भवति बालेषु यथा रागमयी कथा ।निरर्थकाल्पबोधेषु तथोदारोदया कथा ॥११॥कस्मिंश्चिदेव समये किंचित्पुंसो विराजते ।फलमाभाति वृक्षस्य शरद्येव न माधवे ॥१२॥उपदेशगिरो वृद्धे रञ्जना निर्मले पटे ।लगन्त्युदारविज्ञानकथा चाधिगतात्मनि ॥१३॥प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया ।न विस्तरेण तेनैतन्न ज्ञातं भवता स्फुटम् ॥१४॥यदि त्वमात्मनात्मानमधिगच्छसि तं स्वयम् ।एतत्प्रश्नोत्तरं साधु जानास्यत्र न संशयः ॥१५॥मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते ।वक्तव्यो विस्तरेणैव साधो प्रश्नोत्तरक्रमः ॥१६॥जानात्यात्मानमात्मैव कृत आत्मात्मनैव हि ।आत्मैव संप्रसन्नः सन्नात्मानं प्रतिपद्यते ॥१७॥तदेतत्कथितं राम कर्त्रकर्तृविचारणम् ।अज्ञातत्वात्तु तामेतामक्षीणवासनो भवेत् ॥१८॥बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज ॥१९॥तामसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः ।मैत्र्यादिभावनानाम्नीं गृहाणामलवासनाम् ॥२०॥तामप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि ।अन्तःशान्तसमस्तेहो भव चिन्मात्रवासनः ॥२१॥तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।शेषे स्थिरसमाधानो येन त्यजसि तत्त्यज ॥२२॥चिन्मयः कलनाकालप्रकाशतिमिरादिकम् ।वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ॥२३॥समूलमपि संत्यक्त्वा व्योमसौम्यप्रशान्तधीः ।यस्त्वं भवसि सद्बुद्धे स भवानस्तु सत्कृतः ॥२४॥हृदयात्संपरित्यज्य सर्वमेव महामतिः ।यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥२५॥समाधिमथ कर्माणि मा करोतु करोतु वा ।हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ॥२६॥नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः ।न समाधानजप्याभ्यां यस्य निर्वासनं मनः ॥२७॥विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः ।संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥२८॥दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश ।जनाः कतिपया एव यथावस्त्ववलोकिनः ॥२९॥यद्यदालोक्यते किंचित्कश्चिद्यत्तन्न विद्यते ।ईप्सितानीप्सितादन्यन्न तत्र यतते जनः ॥३०॥ये केचन समारम्भा ये जनस्य क्रियाक्रमाः ।ते सर्वे देहमात्रार्थमात्मार्थं नतु किंचन ॥३१॥पाताले ब्रह्मलोके च स्वर्गे च वसुधातले ।व्योम्नि कतिपया एव दृश्यन्ते दृष्टदृष्टयः ॥३२॥इदं हेयमुपादेयमिदमित्यसदुत्थितौ ।निश्चयौ गलितौ यस्य ज्ञस्यासावतिदुर्लभः ॥३३॥करोतु भुवने राज्यं विशत्वम्भोदमम्बु वा ।नात्मलाभादृते जन्तुर्विश्रान्तिमधिगच्छति ॥३४॥ये महामतयः सन्तः शूराश्चेन्द्रियशत्रुषु ।जन्मज्वरविनाशाय त उपास्या महाधियः ॥३५॥सर्वत्र पञ्चभूतानि षष्ठं किंचिन्न विद्यते ।पाताले भूतले स्वर्गे रतिमेतु क्व धीरधीः ॥३६॥युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ।दूरसंत्यक्तयुक्तेस्तु महामत्तार्णवोपमः ॥३७॥कदम्बगोलकैस्तुल्यं ब्रह्माण्डं स्फारचेतसः ।किं प्रयच्छति किं भुंक्ते प्राप्तेऽस्मिन्सकलेपि सः ॥३८॥एतदर्थमबुद्धीनां यन्महासमरक्रियाः ।तन्मन्ये राम धिक्कार्यं द्वन्द्वलक्षक्षयावहम् ॥३९॥कल्पमात्रेण कालेन सुमहापेलवोदरे ।तस्मिन्नपि हि यो नाशः सर्वाधिरमहाधियाम् ॥४०॥आत्मनो ज्ञस्य सर्गादेर्यन्मनागपि नोद्गतम् ।तस्मिञ्जगत्त्रये प्राप्ते किं चिदात्मा बली भवेत् ॥४१॥इतः शैलशतैर्व्याप्ता तथेतो जलराशिभिः ।कियानस्य भुवो देहो येनोदारं प्रपूरयेत् ॥४२॥न तदस्ति जगत्यस्मिन्सपातालसुरालये ।यन्नामात्मवतो ज्ञस्य किंचित्कार्यतरं भवेत् ॥४३॥एकतामनुयातस्य व्योमवद्विततस्य च ।स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्यचेतसः ॥४४॥शरीरजालनीहारधूसरा शून्यकोटरा ।शान्तसंसारसुभगा त्रिलोकीविपुलातटी ॥४५॥स्फारब्रह्मामलाम्भोधिफेनाः सर्वे कुलाचलाः ।चिदादित्यमहाभासमृगतृष्णाजलश्रियः ॥४६॥आत्मतत्त्वमहाम्भोधिवीचयः सर्गराजयः ।अनुत्तमपदाम्भोदवृष्टयः शास्त्रदृष्टयः ॥४७॥चन्द्राग्नितपनालोका घटकाष्ठादिसन्निभाः ।प्रकाशनीयाश्चिद्रूपत्विषो मलकणास्तथा ॥४८॥विहरन्ति स्वमात्मानः संसारवनचारिणः ।कामभोगोलपग्रासमृगा नरसुरासुराः ॥४९॥अस्थिखण्डार्गलामूर्धपिधानाः स्नायुश्रृंखलाः ।जगद्देहा जरज्जीवरक्तमांससमुवद्गकाः ॥५०॥वनमालामृगा मुग्धाः पुरसंचारसंस्थितौ ।बालबुद्धिविनोदाय योजिताश्चर्मपुत्रिकाः ॥५१॥नैवंविधोदारमना मनागपि महामतिः ।न ज्ञश्चलति भोगौधैर्मन्दवातैरिवाचलः ॥५२॥तस्मिन्किल पदे राम ज्ञस्तिष्ठति महोत्तमे ।यस्मिंश्चन्द्रार्कदेशोऽपि न पातालमिव स्थितः ॥५३॥यस्यालोकाल्लोकपालाः समालोकाः सुवेदिनः ।शरीरं पान्त्ययमिव पश्यन्मूढाः क्षपार्णवे ॥५४॥न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।अप्यभ्यासगताः स्फारहृदयं खमिवाम्बुदाः ॥५५॥न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।मर्कटा इव नृत्यन्तो गौरीलास्यार्थिनं हरम् ॥५६॥न केचन जगद्भावास्तत्त्वज्ञं रजयन्त्यमी ।प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा ॥५७॥वज्रार्पितोपममसन्मयमम्बुभङ्ग-तुङ्गं तरङ्गकृतबिम्बमिवावलोक्य ।लोलां तदीहितसुखेषु रतिं न यातितज्ज्ञः कुशैवललवेष्विव राजहंसः ॥५८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः ॥५७॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP