संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५३ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि ।कदम्बाग्रावचूडस्थं पितरं पावनाशयम् ॥१॥पुत्र उवाच ।कोऽसौ खोत्थ इति ख्यातो भूपस्तातोत्तमाकृतिः ।कथितं च किमेतन्मे त्वयेति ब्रूहि तत्त्वतः ॥२॥क्व भविष्यति निर्माणं वर्तमाने क्व गम्यता ।उभयार्थविरुद्धत्वान्मन्मोहाय वचस्तव ॥३॥दाशूर उवाच ।शृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम् ।येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे ॥४॥असदप्युत्थितारम्भमवस्तुमयमाततम् ।संसारसंस्थानमिदमेवमाकथितं मया ॥५॥परमान्नभसो जातः संकल्पः खोत्थ उच्यते ।जायते स्वयमेवासौ स्वयमेव विलीयते ॥६॥तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते ।जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति ॥७॥ब्रह्मविष्ण्विन्द्ररुद्राद्यास्तस्यैवावयवान्विदुः ।विटपानिव वृक्षस्य शृङ्गाणीव महीभृतः ॥८॥शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् ।प्रतिभासानुसंधानमात्रेणैत्य विरिञ्चिताम् ॥९॥यत्रेमे विततालोका लोककोशाश्चतुर्दश ।वनोपवनमालाश्च यत्रोद्यानपरम्पराः ॥१०॥क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः ।शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानलाकृती ॥११॥सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः ।वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः ॥१२॥इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः ।और्वानलाम्बुजा यत्र वाप्यः सप्त महार्णवाः ॥१३॥अध उर्व्यां तथोर्ध्वं खे पुण्यापुण्यधनश्रियः ।नरामरकिराटानां यत्रान्तः क्रयविक्रयौ ॥१४॥तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता ।क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः ॥१३॥केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः ।नरनागादयः केचिदध एव नियोजिताः ॥१६॥वातयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः ।सितास्थिदारवश्चित्रास्त्वग्लेपमसृणामलाः ॥१७॥केचिच्चिरेण नश्यन्ति केचिच्छीघ्रविनाशिनः ।केचित्केशोलपोल्लासरचिताच्छादनश्रियः ॥१८॥कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः ।अनारतवहत्प्राणपवनेनोष्णशीतलाः ॥१९॥कर्णनासास्यताल्वादिवातायनगणान्विताः ।भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः ॥२०॥मायया रचितास्तेषु संकल्पेन महामते ।अहङ्कारमहायक्षाः परमालोकभीरवः ॥२१॥देहापवरकेष्वन्तर्महाहङ्कारयक्षकैः ।सह संक्रीडतेऽत्यर्थं स सदैवासदुत्थितैः ॥२२॥यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा ।मुक्ताफलं यथा वेणावहङ्कारस्तथा तनौ ॥२३॥क्षणमभ्युदयं यान्ति क्षणं शाम्यन्ति दीपवत् ।देहगेहेषु संकल्पतरङ्गाः सागरेष्विव ॥२४॥भविष्यन्नवनिर्माणं स व्याप्नोति तदा पुरम् ।यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति ॥२५॥असंकल्पनमात्रेण स्वेनेवाशु विनश्यति ।श्रेयसे परमायस्य नाशत्वेन तु संभवः ॥२६॥स्वयं संकल्पनामात्रं जायते बालयक्षवत् ।अनन्तायात्मदुःखाय नानन्दाय कदाचन ॥२७॥इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया ।असत्तया नाशयति घनमान्ध्यं यथा तमः ॥२८॥स्वयैव दुःखदायिन्या चेष्टया परिरोदिति ।काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर्यथा ॥२९॥संकल्पितानन्दलवस्तिष्ठत्युद्धरकन्धरम् ।अकस्मात्प्रच्युतमधुबिन्दुभुक्करभो यथा ॥३०॥क्षणं विरतिमायाति रतिमेति क्षणं स्वयम् ।क्षणं विकारमायाति संकल्पेनैव बालवत् ॥३१॥एनं सकलभावेभ्यः कृत्वा निर्मूलमादरात् ।मतिरन्तःपदं याति यथा पुत्र तथा कुरु ॥३२॥त्रयस्तस्या मतेर्देहा अधमोत्तममध्यमाः ।तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः ॥३३॥तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया ।परां कृपणतामेत्य प्रयाति कृमिकीटताम् ॥३४॥सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः ।अदूरकेवलीभावं स्वाराज्यमधितिष्ठति ॥३५॥रजोरूपो हि संकल्पो लोकसंव्यवहारवान् ।परितिष्ठति संसारे पुत्रदारानुरञ्जितः ॥३६॥त्रिविधं तु परित्यज्य रूपमेतन्महामते ।संकल्पः परमायाति पदमात्मपरिक्षये ॥३७॥सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः ।सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु ॥३८॥यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।यदि वा विलयात्मानं शिलायां चूर्णयस्यलम् ॥३९॥यदि वाग्निं प्रविशसि वडवाग्निमथापि वा ।यदि वा पतसि श्वभ्रे खड्गधाराजवेतथा ॥४०॥हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।अत्यन्तकरुणाक्रान्तो लोकनाथोऽथवा यतिः ॥४१॥पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत्तव ।नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते ॥४२॥अनाबाधेऽविकारे च सुखे परमपावने ।संकल्पोपशमे यत्नं पौरुषेण परं कुरु ॥४३॥संकल्पतन्तावखिला भावाः प्रोताः किलानघ ।छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः ॥४४॥असत्सत्सदसत्सर्व संकल्पादेव नान्यतः ।संकल्पं सदसच्चैवमिह सत्यं किमुच्यताम् ॥४५॥संकल्प्यते यथा यद्यत्तत्तथा भवति क्षणात् ।मा किंचिदपि तत्त्वज्ञ संकल्पय कदाचन ॥४६॥निःसंकल्पो यथाप्राप्तव्यवहारपरो भव ।चिदचेत्योन्मुखत्वं हि याति संकल्पसंक्षये ॥४७॥उत्थाय सत्त्वरूपेण योन्या सत्यमयात्मकम् ।न तज्जगदुःखमिदं व्यर्थं सदृशमात्मनः ॥४८॥तेन दुःखाय महते किं मृतेन तवानघ ।यददुःखाय तत्प्राज्ञाः संश्रयन्तीह नेतरत् ॥४९॥अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः ।अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० दाशूरो० संसारनगरविकल्पयोगविचारो नाम त्रिपञ्चाशः सर्गः ॥५३॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP