संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४१ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४१ Translation - भाषांतर श्रीराम उवाच ।क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः ।तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः ॥१॥क्षणमान्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम् ।शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः ॥२॥अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः ।अनस्तमितसारस्य कलना कथमागता ॥३॥श्रीवसिष्ठ उवाच ।यथाभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः ।नासमर्था विरूपार्थाः पूर्वापरविरोधदाः ॥४॥ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये ।यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम् ॥५॥उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ।शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव ॥६॥यदा पुरा ज्ञास्यसि तत्सत्यमत्यन्तनिर्मलम्।वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा ॥७॥भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु कल्पितः ।उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये ॥८॥शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु कल्पितः ।सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः ॥९॥कलनामलमोहादि किंचिन्नात्मनि विद्यते ।नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम् ॥१०॥एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः पुनः ।विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ ॥११॥वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं तमः ।भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते ॥१२॥अविद्ययैवोत्तमया स्वात्मनाशोद्यमेच्छया ।विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी ॥१३॥शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः ।शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥१४॥ईदृशी राम मायेयं यां स्वनाशेन हर्षदा ।न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥१५॥विवेकमाच्छादयति जगन्ति जनयत्यलम् ।नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत् ॥१६॥अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता सु विनश्यति ।मायेयमपरिज्ञायमानरूपैव वल्गति ॥१७॥अहो नु खलु चित्रेयं माया संसारबन्धनी ।असत्येवातिसत्येव स्वज्ञानं विहितं तया ॥१८॥अत्यभिन्नपदे तस्मिंस्तन्वाना भेदमाततम् ।संसारमाया येनासौ तेनासौ पुरुषोत्तमः ॥१९॥नास्त्येषा परमार्थे न त्वेवं भावनयेद्धया ।ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम् ॥२०॥यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव ते । निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः ॥२१॥यदिदं दृश्यतां यातं मानसं मननं महत् ।असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम् ॥२२॥सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि मोक्षभाक् ।चलाचलाकृतिर्या या दृष्टिरावद्धभावना ॥२३॥सा समग्रजगद्भूतखगबन्धनवागुरा ।यः स्वप्नभूमिवद्भ्रान्तमसत्सद्ह्येकनिश्चयः ॥२४॥जगत्पश्यत्यसक्तात्मा न स दुःखे निमज्जति ।यस्यैतास्वस्वरूपासु भावना स्वात्मभावना ॥२५॥अस्वरूपस्य तस्यापि सा ह्यविद्यैव विद्यते ।विकारितादयो दोषा न केचन महात्मनि ॥२६॥परमात्मनि विद्यन्ते पयसीवेह पांसवः ।भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता ॥२७॥व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च नात्मनः ।अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः ॥२८॥संस्थितिं नाधिगच्छन्ति पटा इव वितन्तवः ।उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते ॥२९॥आत्मज्ञानादृते तच्च शास्त्रार्थात्समवाप्यते ।अविद्यासरितः पारमात्मलाभादृते किल ॥३०॥राम नासाद्यते तद्धि पदमक्षयमुच्यते ।यतःकुतश्चिज्जातेयमविद्या मलदायिनी ॥३१॥नूनं स्थितिमुपायाता समासाद्य पदं स्थिता ।कुतो जातेयमिति ते राम मास्तु विचारणा ॥३२॥इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव ॥३३॥यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता ॥३४॥असतो भ्रान्तता सत्यरूपां जानातु कः कुतः ।जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः ॥३५॥बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै ततः ।अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये ॥३६॥अविद्यया ये पुरुषा न नाम विवशीकृताः ।तदस्या रोगशीलाया यत्नं कुरु विनाशने ॥३७॥यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।सर्वापदामेकसखीमज्ञानतरुमञ्जरीम् ।अनर्थसार्थजननीमविद्यामलमुद्धर ॥३८॥भयविषाददुराधिविपत्प्रदांहृदयमोहमहापटलांकुराम् ।भृशमपास्य कुदृष्टिमिमां बला-द्भव भवार्णवपारमुपागतः ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे अविद्याकथनं नामैकचत्वारिशः सर्गः ॥४१॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP