संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५६ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।नास्तीदमिति निर्णीय सर्वतस्त्यज रञ्जनाम् ।यन्नास्ति तत्प्रति किल केवास्थेह विचारिणाम् ॥१॥दृश्यमानमथेदं चेदस्ति सत्तामुपागतम् ।तिष्ठ स्वात्मनि बध्नासि त्वं किमत्र किलात्मत्ताम् ॥२॥अथ चेदस्ति नास्तीदमिति निश्चयवानसि ।तथापि भावनासङ्गः कथं युक्तश्चलाचले ॥३॥नेदमस्ति जगद्राम तव नास्ति महामते ।केवलं स्वच्छमेवेत्थमाततं मितमीदृशम् ॥४॥नेदं कर्तृकृतं किंचिन्न वा कर्तृकृतक्रमम् ।स्वयमाभासते चेदं कर्त्रकर्तृपदं गतम् ॥५॥अकर्तृकं जगज्जालं भवत्वथ सकर्तृकम् ।मा त्वमेतेन शबलं भावयन्नास्य चेतसि ॥६॥सर्वेन्द्रियविहीनात्मा कर्तेव स जडोपमः ।अकर्तृ च तदा मन्ये काकतालीयवज्जगत् ॥७॥काकतालीययोगेन जातं यत्किंचिदेव तत् ।तस्मिन्भावानुसंधानं बालो बध्नाति नेतरः ॥८॥न कदाचिदिदं शान्तं जगद्राम न च क्षयि ।अजस्रं दृश्यमानत्वाद्भावित्वाच्च पुनःपुनः ॥९॥न कदाचिदिदं चास्ति जगद्राम न च क्षयि ।अजस्रं क्षीयमाणत्वान्नास्तित्वाच्चानुमानतः ॥१०॥सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः ।कुर्वाणः सर्वदा खेदं न कदाचन गच्छति ॥११॥तेनेयं नियतिः प्रौढा भावाभावदशामयी ।ईदृश्येव स्थिरा दीर्घा मिथ्योत्थापि च दृश्यते ॥१२॥अपर्यन्तस्य कालस्य कश्चिदंशः शरच्छतम् ।तावन्मात्रमहाश्चर्यः किमर्थं सोऽनुधावति ॥१३॥स्थिराश्चेज्जगतां भावास्तत्त्वादास्था न शोभते ।कथमन्योन्यसंश्लेषो जडचेतनयोः किल ॥१४॥अस्थिराश्चेज्जगद्भावास्तदप्यास्था न शोभते ।पयःफेनास्थिरस्यान्ते दुःखमेषा ददाति ते ॥१५॥आस्थाबन्धो महाबाहो जगद्भावत्वमात्मनः ।न स्थिरास्थिरयोः फेनशैलयोरिव राजते ॥१६॥सर्वकर्ताप्यकर्तेव करोत्यात्मा न किंचन ।तिष्ठत्येवमुदासीन आलोकं प्रति दीपवत् ॥१७॥कुर्वन्न किंचित्कुरुते दिवाकार्यमिवांशुमान् ।गच्छन्न गच्छति स्वस्थः स्वास्पदस्थो रविर्यथा ॥१८॥यतः कुतश्चिदेवेदं संपन्नमिव लक्ष्यते ।अरुणातीरवद्वारिपूरावर्तवदाततम् ॥१९॥इति चेद्भवता राम नैपुण्येनावधारितम् ।प्रमाणपरिशुद्धेन चेतसा च विचारितम् ॥२०॥तथापि भावनां साधो पदार्थं प्रति नार्हसि ।अलातचक्रे स्वप्ने च भ्रमे वा केव भावना ॥२१॥अकस्मादागतो जन्तुः सौहार्दस्य न भाजनम् ।भ्रमोद्भूतं जगज्जालमास्थायास्तन्न भाजनम् ॥२२॥औष्ण्येन्दौ शीतले भानौ मृगतृष्णाजले तथा ।यथा न भावयस्यास्थामेवं भावय मा स्थितौ ॥२३॥संकल्पपुरुषस्वप्नजनद्वीन्दुत्वविभ्रमम् ।यथा पश्यसि पश्य त्वं भावजातमिदं तथा ॥२४॥अन्तरास्थां परित्यज्य भावश्रीभावनामयीम् ।योऽसि सोऽसि जगत्यस्मिँल्लीलया विहरानघ ॥२५॥अकर्तृत्वपदं पीत्वा पीत्वेच्छामपि कुर्वतः ।सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः ॥२६॥इयं संनिधिमात्रेण नियतिः परिजृम्भते ।दीपसंनिधिमात्रेण निरिच्छैव प्रकाशते ॥२७॥अभ्रसंनिधिमात्रेण कुटजानि यथा स्वयम् ।आत्मसंनिधिमात्रेण त्रिजगन्ति तथा स्वयम् ॥२८॥सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति ।जायते व्यवहारश्च सति देवे तथा क्रिया ॥२९॥निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते ।सत्तामात्रेण देवे तु तथैवायं जगद्गणः ॥३०॥अतः स्वात्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् ।निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः ॥३१॥सर्वेन्द्रियाद्यतीतत्वात्कर्ता भोक्ता न सन्मयः ।इन्द्रियान्तर्गतत्वात्तु कर्ता भोक्ता स एव हि ॥३२॥द्वे एवात्मनि विद्येते कर्तृताकर्तृतानघ ।ययैव पश्यसि श्रेयस्तामाश्रित्य स्थिरो भव ॥३३॥सर्वस्थोऽहमकर्तेति दृढभावनयानया ।प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यते। ॥३४॥याति नीरसतां जन्तुरप्रवृत्तेश्च चेतसः ।यस्याहं किंचिदेवेह न करोमीति निश्चयः ॥३५॥भोगौघकामवांस्तत्र कः करोतु जहातु वा ।तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ॥३६॥परमामृतनाम्नी सा समतैवावशिष्यते ।अथ सर्वं करोमीति महाकर्तृतया तया ॥३७॥यदीच्छसि स्थितिं राम तत्तामप्युत्तमां विदुः ।अहो यन्न करोमीमं समग्रं जागतं भ्रमम् ॥३८॥रागद्वेषक्रमस्तत्र कुतोऽन्यस्यात्यसंभवात् ।यदन्येन शरीरं तु दग्धमन्येन लालितम् ॥३९॥सोऽस्मदारम्भ एवातः कः खेदोल्लासयोः क्रमः ।मत्सखासुखविस्तारे जगज्जालक्षयोदये ॥४०॥अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः ।खेदोल्लासविलासेषु स्वात्मकर्तृतयैतया ॥४१॥स्वयमेव लयं याते समतैवावशिष्यते ।समता सर्वभूतेषु यासौ सत्या परा स्थितिः ॥४२॥तस्यामवस्थितं चित्तं न भूयो जन्मभाक्मनाक् ।अथवा सर्वकर्तृत्वमकर्तृत्वं च राघव ॥४३॥सर्वं त्यक्त्वा मनःपीत्वा योऽसि सोसि स्थिरो भव ।अहं सोऽहमयं नाहं करोमीदमिदं तु न ॥४४॥इति भावानुसंधानमयी दृष्टिर्न तुष्टये ।सा कालसूत्रपदवी सा महावीचिवागुरा ॥४५॥सासिपत्रवनश्रेणी या देहोऽहमिति स्थितिः ।सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते ॥४६॥स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुष्कसी ।तया सुदूरोज्झितया दृष्टौ पटललेखया ॥४७॥उदेति परमा दृष्टिर्ज्योत्स्नेव विगताम्बुदा ।ययाभ्युदितया राम तीर्यते भवसागरः ॥४८॥कर्ता नास्मि न चाहमस्मि स इति ज्ञात्वैवमन्तः स्फुटं ।कर्ता चास्मि समग्रमस्मि तदिति ज्ञात्वाथवा निश्चयं ॥४९॥कोप्येवास्मि नकिंचिदेवमिति वा निर्णीय सर्वोत्तमे ।तिष्ठ त्वं स्वपदे स्थिताःपदविदो यत्रोत्तमाः साधवः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे कर्तृत्वविचारयोगोपदेशकरणं नाम षट्पञ्चाशः सर्गः ॥५६॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP