संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ११ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ११ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११ Translation - भाषांतर काल उवाच ।अद्योद्दामतरङ्गौघभाङ्काररणितानिले ।तीर एव तरङ्गिण्यास्तपस्तपति ते सुतः ॥१॥जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः ।तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे ॥२॥यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम् ।तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय ॥३॥श्रीवसिष्ठ उवाच ।इत्युक्ते जगदीशेन कालेन समदृष्टिना ।मुनिः संचिन्तयामास ज्ञानाक्ष्णा तनयेहितम् ॥४॥ददर्श च मुहूर्तेन प्रतिभानवशादसौ ।पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् ॥५॥पुनर्मन्दरसानुस्थां स्वस्थां कालाग्रसंस्थिताम् ।समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः ॥६॥विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया ।वीतरागमुवाचेदं वीतरागो मुनिर्वचः ॥७॥भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः ।त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी ॥८॥नानाकारविकाराढ्या सत्येवासत्यरूपिणी ।विभ्रमं जनयत्येषा धीरस्यापि जगत्स्थितिः ॥९॥त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् ।रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् ॥१०मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते ।तेनेमं मृतमालोक्य जातः संभ्रमवानहम् ॥११॥अक्षीणाजीवितं पुत्रं कालो मे नीतवानिति ।नियतेर्वशतो देव तुच्छापीच्छा ममोदिता ॥१२॥ननु विज्ञातसंसारगतयो वयमापदाम् ।संपदां चैव गच्छामो हर्षामर्षवशं विभो ॥१३॥अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।कर्तव्य इति रूढेयं संसारे भगवन् स्थितिः ॥१४॥इदं कार्यमिदं नेति यावत्कार्यं जगद्भ्रमः ।तस्यैतत्संपरित्यागो हेय एव जगद्गुरो ॥१५॥केवलं तावकीं चिन्तामनालोक्य यदा वयम् ।भगवन्भवते क्रुद्धा याताः स्मस्तेन बाध्यताम् ॥१६॥त्वयेदानीमहं देव स्मारितस्तनयेहितम् ॥समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया ॥१७॥मनो जगति भूतानां द्वे शरीरेऽत्र सर्वगम् ।मन एव शरीरं हि येनेदं भाव्यते जगत् ॥१८॥काल उवाच ।सम्यगुक्तं त्वया ब्रह्मन् शरीरं मन एव च ।करोति देहं संकल्पात्कुम्भकारो घटं यथा ॥१९॥ ।]करोत्यकृतमाकारं कृतं नाशयति क्षणात् ॥संकल्पेन मनोमोहाद्बालो वेतालकं यथा ॥२०॥तथा च संभ्रमस्वप्नमिथ्याज्ञानादिभासुराः । गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥२१॥ स्थूलदृष्टिदशां त्वेतामवलम्ब्य महामुने ॥पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते ॥२२॥मनो मनननिर्माणमात्रमेतज्जगत्त्रयम् ।न सन्नासदिव स्फारमुदितं नेतरन्मुने ॥२३॥ चित्तदेहाङ्गलतया भेदवासनयेद्धया ।द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता ॥२४॥ भेदवासनया पश्यत्पदार्थनिचयं मनः । भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ॥२५॥ कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।भावयत्स्वविकल्पोत्थां याति संसारितां मनः ॥२६॥मननं कृत्रिमं रूपं ममैतन्न यतोऽस्म्यहम् ।इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥२७॥यथा प्रवितताम्भोधौ द्रुतां नैकतरङ्गिणि ।शाम्यत्स्पन्दतयानेककल्लोलावलिशालिनि ॥२८॥वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥२९॥ह्रस्वस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।ह्रस्वोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ॥३०॥दीर्घस्तरङ्गः स्वं रूपं भावयन्त्यस्वभावतः ।दीर्घोऽस्मीति विकल्पेन करोति स्वेन भावनाम् ॥३१॥ह्रस्वश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।भावयन्भूतलं याति तादृग्भावनया स्वया ॥३२॥उत्पन्नश्च पलादूर्ध्वमुत्थितोऽस्मीति भावितः ।सरश्मिरत्नजालस्तु शोभते दीप्तया श्रिया ॥३३॥तुषारकरबिम्बस्थः शीतलोऽस्मीति बिम्बति ।सतटाचलदावाग्निप्रतिबिम्बो ज्वलद्वपुः ॥३४॥बिभेति बत दग्धोऽस्मीत्यात्तमौनश्च कम्पते ।प्रतिबिम्बितवेलाद्रितटपक्षवनद्रुमः ॥३५॥महदारम्भसंरम्भसंयुक्तोऽस्मीति राजते ।विशल्लोलानिलात्यन्तध्वस्तलोलशरीरकः ॥३६॥खण्डशः परियातोऽस्मीत्यात्तक्रन्द इवारवी ।न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोधरात् ॥३७॥नचैकं रूपमेतेषां किंचित्सन्नाप्यसन्मयम् ।नचैते ह्रस्वदैर्घ्याद्या गुणास्तेषु न तेषु ते ॥३८॥नोर्मयः संस्थिता ह्यब्धौ न तत्तत्र न संस्थिताः ।केवलं स्वस्वभावस्थसंकल्पविकलीकृताः ॥३९॥नष्टानष्टाः पुनर्जाता जाताजाताः पुनः पुनः ।परस्परपरामर्शान्नान्यतामुपयान्त्यलम् ॥४०॥एकरूपाम्बुसामान्यमया एव निरामयाः ।तथैवास्मिन्प्रवितते सिते शुद्धे निरामये ॥४१॥ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ।सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः ॥४२॥संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ।नानाशक्तिर्हि नानात्वमेति स्वे वपुषि स्थितिम् ॥४३॥बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ।स्त्रीपुमान्व्यङ्गरूपेण ब्रह्मेव परिवर्तते ॥४४॥कल्पनान्या जगन्नाम्नी नासीदस्ति भविष्यति ।ब्रह्मणो जगतो भेदो मनागपि न विद्यते ॥४५॥संपूर्णं खल्विदं ब्रह्म जगद्ब्रह्मैव केवलम् ।इति भावय यत्नेन ह्यन्यत्सर्वं परित्यज ॥४६॥नानारूपिण्येकरूपा वैरूप्यशतकारिणी ।नियतिर्नियताकारा पदार्थमधितिष्ठति ॥४७॥जडाजडमुपादत्ते चित्तमायाति चिन्मये ।वासनारूपिणी शक्तिः स्वस्थरूपा स्थितात्मनः ॥४८॥ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।नानारूपैः प्रतिस्पन्दैः परिपूर्ण इवार्णवः ॥४९॥नानातां स्वयमादत्ते नानाकारविहारतः ।आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि ॥५०॥व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।व्यतिरिक्ता न विश्वेशात्समग्राः कल्पनास्तथा ॥५१॥शाखापुष्पलतापत्रफलकोरकयुक्तयः ।यथैकस्मिंस्तथा बीजे सर्वदा सर्वशक्तिता ॥५२॥विचित्रवर्णता यद्वद्दृश्यते कठिनातपे ।विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी ॥५३॥विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् ।एकवर्णात्पयोवाहाच्छक्रचापलता यथा ॥५४॥अजडाज्जडतोदेति जाड्यभावनहेतुका ।ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता ॥५५॥अचितश्चेतसः शक्तिं स्वबन्धायेच्छया शिवः ।तनोति तान्तवं कोशं कोशकारकृमिर्यथा ॥५६॥स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वैष विस्मृतिम् ।करोति कठिनं बन्धं कोशकारकृमिर्यथा ॥५७॥स्वेच्छयात्मात्मनो ब्रह्मन्भावयित्वा स्वकं वपुः ।संसारान्मोक्षमाप्नोति स्वालानादिव वारणः ॥५८॥यथैव भावयत्यात्मा सततं भवति स्वयम् ।तथैवापूर्यते शक्त्या शीघ्रमेव महानपि ॥५९॥भाविता शक्तिरात्मानमात्मतां नयति क्षणात् ।अनन्तमखिलं प्रावृड्मिहिका महती यथा ॥६०॥या शक्तिरुदिता शीघ्रं याति तन्मयतामजः ।य एवर्तुः स्थितिं यातस्तन्मयो भवति द्रुमः ॥६१॥न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥६२॥नास्ति बन्धो न मोक्षोऽस्ति तन्मयस्त्विव लक्ष्यते ।ग्रस्तं नित्यमनित्येन मायामयमहो जगत् ॥६३॥यदैव चित्तं कलितं किलानेनाकलात्मना ।कोशकारवदात्मायमनेनावलितस्तदा ॥६४॥अन्योन्यरूपास्त्वत्यन्तं विकल्पितशरीरकाः ।मनःशक्तय एतस्मादिमा निर्यान्ति कोटयः ॥६५॥तज्जास्तत्स्थाः पृथग्रूपाः समुद्रादिव वीचयः ।तज्जास्तत्स्थाः पृथक्स्थाश्च चन्द्रादिव मरीचयः ॥६६॥अस्मिन्स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।चिज्जले वितताभोगे चिन्मात्ररसमालिनि ॥६७॥काश्चित्स्थिरा ब्रह्मविष्णू काश्चिद्रुद्रत्वमागताः ।काश्चित्पुरुषतां प्राप्ताः काश्चिद्देवत्वमागताः ॥६८॥[ लहर्यः प्रस्फुरन्त्येताः स्वभावोद्भावितात्मकाः ।काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः ॥घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ।काश्चित्किंनरगन्धर्वविद्याधरसुरादिकाः ॥उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ।काश्चित्किंचित्स्थिराकारा यथा कमलजादिकाः ॥काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः॥]कृमिकीटपतङ्गाहिगोमशाजगरादिकाः ।काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेम्बुबिन्दुवत् ॥६९॥काश्चिच्चला नरमृगगृध्रजम्बुलकादिकाः ।स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव ॥७०॥सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः ।अतुच्छकलनाः काश्चित्काश्चित्तुच्छशरीरकाः ॥७१॥संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः ।सुविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् ॥७२॥अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः ।कृशोऽतिदुःखी मूढोऽहमितिदुःखैर्वशीकृताः ॥७३॥काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः ।काश्चित्पुरुषतां प्राप्ताः काश्चिदर्णवतां गताः ॥७४॥काश्चित्स्थिता जगति कल्पशतान्यनल्पाःकाश्चिद्व्रजन्ति परमं पदमिन्दुशुद्धाः ।ब्रह्मार्णवात्समुदिता लहरीविलोला-श्चित्संविदो हि मननापरनामवत्यः ॥७५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने संसारप्रवृत्तिदर्शनं नामैकादशः सर्गः ॥११॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP