संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २३ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।य उत्तमपदालम्बी चक्रभ्रमवदास्थितः ।शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते ॥१॥तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।सुखायैव न दुःखाय स्वशरीरमहापुरी ॥२॥श्रीराम उवाच ।नगरीत्वं शरीरस्य कथं नाम महामुने ।एतां चाधिवसन्योगी कथं राजसुखैकभाक् ॥३॥श्रीवसिष्ठ उवाच ।रम्येयं देहनगरी राम सर्वगुणान्विता ।ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥४॥नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला ॥५॥रोमराजीलतागुल्मा त्वचाजालकमालिता ।गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला ॥६॥रेखाविभक्तपादाग्रशिलाप्रथमनिर्मिता ।चर्ममर्मशिरासारसंधिसीमामनोरमा ॥७॥उरूरुतनुभागाग्रनिर्मितोपस्थनिम्नगा ।कचत्केशावलीकाचदलप्रस्थवनावृता ॥८॥भ्रूललाटोष्ठसच्छायवदनोद्यानशोभिता ।दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली ॥९॥वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया ॥१०॥उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा भक्ष्यतत्परा ।दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥११॥हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।अनारतनवद्वारप्रवहत्प्राणनागरा ॥१२॥आस्यस्फारवदादृष्टदन्तास्थिशकलाकुला ।मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना ॥१३॥रोमशष्पतरच्छन्ना कर्णकोटरकूपका ।स्फिक्श्रृंखलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला ॥१४॥गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्दमा ।चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥१५॥धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।वदनोद्यानहसनपुष्पोद्गममनोरमा ॥१६॥स्वशरीरमनोज्ञस्य सर्वसौभाग्यसुन्दरी ।सुखायैव न दुःखाय परमाय हिताय च ॥१७॥अज्ञस्येयमनन्तानां दुःखानां कोशमालिका ।ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका ॥१८॥किंचिदस्यां प्रनष्टायां ज्ञस्य नष्टमरिन्दम ।स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥१९॥यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् ।अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥२०॥शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥२१॥सुखदुःखक्रियाजालं यदेषोद्वहति स्वयम् ।तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा ॥२२॥तस्यां शरीरपुर्यां हि राज्यं कुर्वन्गतज्वरः ।ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः ॥२३॥न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् ।न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति ॥२४॥अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति ।संसारारिभयस्यान्तर्मूलान्येव निकृन्तति ॥२५॥तृष्णासारपरावर्ते कामसंभोगदुर्ग्रहे ।न निमज्जति पर्यस्तः सुखदुःखप्रदेवने ॥२६॥करोत्यविरतं स्नानं बहिरन्तरवीक्षणात् ।सरित्संगमतीर्थेषु मनोरथगतः क्रमात् ॥२७॥सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मुखः ।ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे ॥२८॥सुखावहैषा नगरी नित्यं वै विदितात्मनः ।भोगमोक्षप्रदा चैषा शक्रस्येवामरावती ॥२९॥स्थितया संस्थितं सर्वं किंचिन्नष्टं न नष्टया ।यया पुर्या महीयस्या सा कथं न सुखावहा ॥३०॥विनष्टे देहनगरे ज्ञस्य नष्टं न किंचन ।आक्रान्तकुम्भाकाशस्य खस्य कुम्भक्षये यथा ॥३१॥विद्यमानं घटं वायुः किंचित्स्पृशति नास्थितम् ।यथा तथैव देही स्वां शरीरनगरीमिमाम् ॥३२॥अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि सन् ।विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक् ॥३३॥कुर्वन्नपि न कुर्वाणः समस्तार्थक्रियोन्मुखः ।कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति ॥३४॥कदाचिल्लीलया लोलं विमानमधिरोहति ।अनाहतगतिः कान्तं विहर्तुममलं मनः ॥३५॥तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।रमते रामया मैत्र्या नित्यं हृदयसंस्थितः ॥३६॥द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः सत्यतैकते ।इन्दोरिव विशाखे द्वे समाह्लादितचेतसी ॥३७॥क्षपितानखिलान्लोकान्दुःखक्रकचदारितान् ।वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते ॥३८॥चिरं पूरितसर्वाशः सर्वसंपत्तिसुन्दरः ।अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥३९॥सेव्यमानोऽपि भोगौघो न खेदायास्य जायते ।कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥४०॥परिज्ञातोपभुक्तो हि भोगो भवति तुष्टये ।विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम् ॥४१॥नरनारीनटौघानां विरहे दूरगामिनाम् ।ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते ॥४२॥अशङ्कितोपसंप्राप्ता ग्रामयात्रा यथाध्वगैः ।प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः क्रियाः ॥४३॥अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा पुनः ।नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥४४॥इन्द्रियाणां न हरति प्राप्तमर्थं कदाचन ।नाददाति तथाऽप्राप्तं संपूर्णो ज्ञोऽवतिष्ठते ॥४५॥अप्राप्तचिन्ताः संप्राप्तसमुपेक्षाश्च सन्मतिम् ।न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम् ॥४६॥संशान्तसर्वसंदेहो गलिताखिलकौतुकः ।संक्षीणकल्पनादेहो ज्ञः सम्राडिव राजते ॥४७॥आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते ।संपूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे ॥४८॥भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि च ।अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव ॥४९॥इच्छतोऽन्योज्झितां जायां यथैवान्येन हस्यते ।इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते ॥५०॥त्यजत्स्वात्मसुखं सौम्यं मनो विषयविद्रुतम् ।अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥५१॥भोगेषु प्रसरो यस्या मनोवृत्तेश्च दीयते ।साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥५२॥ताडितस्य हि यः पश्चात्संमानः सोऽप्यनन्तकः ।शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते ॥५३॥अनार्तेन हि सन्मानो बहुमानो न बुध्यते ।पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते ॥५४॥पूर्णस्तु प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छते ।जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम् ॥५५॥मनसोऽभिगृहीतस्य या पश्चाद्भोगमण्डना ।तामेवालब्धविस्तारां क्लिष्टत्वाद्बहु मन्यते ॥५६॥बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते ॥५७॥हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।अङ्गान्यङ्गैरिवाक्रम्य जयेश्चेन्द्रियशात्रवान् ॥५८॥जेतुमन्यं कृतोत्साहैः पुरुषैरिह पण्डितैः ।पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम् ॥५९॥एतावति धरणितलेसुभगास्ते साधुचेतनाः पुरुषाः ।पुरुषकलासु च गण्यान जिता ये चेतसा स्वेन ॥६०॥हृदयबिले कृतकुण्डल.कलनाविवशो मनोमहाभुजगः ।यस्योपशान्तिमागत-मलमुदितं तं सुनिर्मलं वन्दे ॥६१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः ॥२३॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP