संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४४ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४४ Translation - भाषांतर श्रीराम उवाच ।क्रमेणानेन येनाप्ता जीवेन स्थितिरात्मनः ।स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम् ॥१॥श्रीवसिष्ठ उवाच ।पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे ।पूवापरविचारार्हा शेमुषी क्व गता तव ॥२॥यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् ।आभासमात्रमेवेतदसत्स्वप्नमिवोत्थितम् ॥३॥दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ दृश्यते ।द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत् ॥४॥प्रशान्ताज्ञाननिद्रस्तु नूनं गलितभावनः ।प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति ॥५॥स्वभावकल्पितो राम जीवानां सर्वदैव हि ।आमोक्षपदसंप्राप्ति संसारोऽस्त्यात्मनोऽन्तरे ॥६॥जीवस्य तरलः काय आवर्तः पयसो यथा ।यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा ॥७॥पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा ।यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे ॥८॥बहुरूपतया राम यतोऽस्त्येकतमः स्फुटः ।स एव प्रतिभासोऽस्य मनसः किल जायते ॥९॥स एवाशु भवत्येतन्मृत्पिण्डो घटकोपमः ।आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः ॥१०॥यस्मादेष विभुर्ब्रह्मा पद्मकोशगृहस्थितः ।तत्संकल्पक्रमेणैव ततः स्थितिमुपागता ॥११॥इयं सृष्टिरपर्यन्ता मायेव घनमायया ।श्रीराम उवाच ।जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः ॥१२॥यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु मे ।श्रीवसिष्ठ उवाच ।ब्राह्मे श्रृणु महाबाहो शरीरग्रहणे क्रमम् ॥१३॥निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् ।दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥१४॥लीलयैव यदादत्ते दिक्कालकलितं वपुः ।तदैव जीवपर्यायं वासनावेशतत्परम् ॥१५॥मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥१६॥आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः ॥१७॥भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा ॥१८॥शब्दस्पर्शस्वरूपाभ्यां संघाताज्जन्यतेऽनलः ।मनस्तद्धनतां प्राप्य ततो भावयति क्षणात् ॥१९॥प्राकाश्यममलालोकमालोकस्तेन वर्धते ।मनस्तावद्गुणगतं रसतन्मात्रवेदनम् ॥२०॥क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो भवेत् ।ततस्तादृग्गुणगतं मनो भावयति क्षणात् ॥२१॥स्वरूपं गन्धवत्स्थूलं येनोदेष्यति मेदिनी ।अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् ॥२२॥वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ।अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् ॥२३॥तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ।तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः ॥२४॥स्थूलतामेति पाकेन मनो बिल्वफलं यथा ।मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ॥२५॥सन्निवेशमुपादत्ते तत्तेजः स्वस्वभावतः ।तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः ॥२६॥भजते भावनां स्फारां निश्चितामातताम्बराम् ।ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा ॥२७॥पार्श्वयोर्हस्तसंस्थानां मध्ये चोदरधर्मिणीम् ।प्रकटावयवो बालो ज्वालामालामलाकृतिः ॥२८॥मनोरथवशोपात्तवपुस्तिष्ठत्यसावथ ।एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः ॥२९॥नयत्युपचयं देहं स्वस्वभावमृतुर्यथा ।कालेन स्फुटतामेति भवत्यमलविग्रहः ॥३०॥बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ।स एव भगवान्ब्रह्मा सर्वलोकपितामहः ॥३१॥द्रवत्कनकसंकाशः परमाकाशसंभवः ।यथासौ परमाकाशे तिष्ठत्यपररूपवान् ॥३२॥जनयत्यात्मनो मोहमात्मस्थं चित्तलीलया ।कदाचित्केवलं व्योम परमं पारवर्जितम् ॥३३॥अनादिमध्यपर्यन्तं कदाचिदमलं पयः ।कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम् ॥३४॥कदाचित्काननं कार्ष्ण्यं कालं कमलकुड्मलम् ।अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः ॥३५॥कल्पयन्पालयत्येष नानारूपाणि हेलया ।तत्रेदंप्रथमत्वेन यदैष ब्रह्मणः पदात् ॥३६॥अवतीर्णस्तदाऽज्ञानात्तथैव सुखमस्मृतम् ।गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम् ॥३७॥प्राणापानप्रवाहाढ्यं द्रव्यैरिव विनिर्मितम् ।रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम् ॥३८॥त्रिस्थूणं पञ्चदैवत्यमधश्चरणलाञ्छितम् ।पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् ॥३९॥युक्तमङ्गुलिविंशत्या नखविंशतिलाञ्छितम् ।द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च ॥४०॥नीडं चित्तविहङ्गस्य नीडं मन्मथभोगिनः ।तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् ॥४१॥अभिमानगजालानं मानसाम्भोजशोभितम् ।अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥४२॥चिन्तयामास भगवांस्त्रिकालामलदर्शनः ।अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते ॥४३॥अदृष्टपारपर्यन्ते प्रथमं किमभूदिति ।इतिचिन्तितवान्ब्रह्मासद्योजातोऽमलात्मदृक् ॥४४॥अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात् ॥४५॥वसन्तः कुसुमानीव वेदानादाय संस्तुतान् ।लीलया कल्पयामास चित्रसंकल्पजाः प्रजाः ॥४६॥नानाचारसमाचारं गन्धर्वनगरे यथा ।तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ॥४७॥अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ।दृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता ।विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव ॥४८॥विविधविरचनैः क्रियाविलासैःकमलजरूपधरेण चेतसैव ।रघुसुत परिकल्पनेन नीतास्थितिमतुलां जगतीह सर्गलक्ष्मीः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे संसारावतरणप्रतिपादनोपदेशो नाम चतुश्चत्वारिंशः सर्गः ॥४४॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP