संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २१ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २१ Translation - भाषांतर श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ संशयो यो महानयम् ।हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥१॥दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता ॥२॥यस्मादन्यन्न नामास्ति न भूतं न भविष्यति ।कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते ॥३॥श्रीवसिष्ठ उवाच ।साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी ।मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी ॥४॥पूर्वापरविचारार्थतत्परेयं मतिस्तव ।संप्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शंकरादिभिः ॥५॥प्रश्नस्यास्य तु हे राम न कालस्तव संप्रति ।सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ॥६॥सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं परम् ।करामलकवत्तेन सिद्धान्तस्ते भविष्यति ॥७॥सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते ।प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः ॥८॥सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः ॥९॥अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।यद्वशाज्जनताजन्म तदाकर्णय सुव्रत ॥१०॥एवं प्रकृतिरूपेयं मनोमननधर्मिणी ।कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः ॥११॥शृणु दर्शनभेदेन तन्नामाभिमताकृतिम् ।वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥१२॥यं यं भावमुपादत्ते मनो मननचञ्चलम् ।तत्तामेति घनामोदमन्तःस्थः पवनो यथा ॥१३॥ततस्तमेव निर्णीय तमेव च विकल्पयन् ।अन्तःस्थया रञ्जनया रञ्जयन्स्वामहंकृतिम् ॥१४॥तन्निश्चयमुपादाय तत्रैव रसमृच्छति ।यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च ॥१५॥यन्मयं हि मनो राम देहस्तदनु तद्वशः ।तत्तामायाति गन्धान्तः पवनो गन्धतामिव ॥१६॥बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः ।स्फुरति स्वत एवोर्वी रजोलोल इवानिले ॥१७॥कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रणयत्यलम् ।कर्म निष्पद्यते स्फारं पांसुजालमिवानिले ॥१८॥एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् ।अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥१९॥यादृशं भावमादत्ते दृढाभ्यासवशान्मनः ।तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति ॥२०॥तथा क्रियां तत्फलतां निष्पादयति चादरात् ।ततस्तमेव चास्वादमनुभूयाशु बध्यते ॥२१॥यं यं भावमुपादत्ते तं तं वस्त्विति विन्दति ।तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते ॥२२॥धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च ॥२३॥मनो वै कापिलानां तु प्रतिपत्तिनिजामलम् ।उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ॥२४॥मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः ।स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः ॥२५॥वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति रूढया ।मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ॥२६॥मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥२७॥विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमपूरया ।मुक्तिः शमदमोपेता निर्णीय परिकल्पिता ॥२८॥मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥२९॥आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया ।चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः ॥३०॥निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः ।स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः ॥३१॥सर्वासामेव चैतासां रीतीनामेवमाकरः ।मनो नाम महाबाहो मणीनामिव सागरः ॥३२॥न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत् ॥३३॥यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतैर्नरैः ।मनस्तन्मयतां नेयं येनासौ समवाप्यते ॥३४॥दृश्यं संपरिडिम्भं स्वं तुच्छं परिहरन्मनः ।तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते ॥३५॥अपवित्रमसद्रूपं मोहनं भयकारणम् ।दृश्यमाभासमाभोगि बन्धमाभावयानघ ॥३६॥मायैषा सा ह्यविद्यैषा भावनैषा भयावहा ॥संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः ॥३७॥ दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।प्रमार्जयेव तन्मिथ्या महामलिनकर्दमम् ॥३८॥दृश्यतन्मयता यैषा स्वभावस्थानुभूयते ।संसारमदिरा सेयमविद्येत्युच्यते बुधैः ॥३९॥अनयोपहतो लोकः कल्याणं नाधिगच्छति ।भास्वरं तापनालोकं पटलान्धेक्षणो यथा ॥४०॥स्वयमुत्पद्यते सा च संकल्पाद्व्योमवृक्षवत् ।असंकल्पनमात्रेण भावनायां महामते ॥४१॥क्षीणायां स्वरसादेव विमर्शेन विलासिना ।असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः ॥४२॥सत्यदृष्टौ प्रपन्नायामसत्ये क्षयमागते ।निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते ॥४३॥न सत्ता यस्य नासत्ता न सुखं नापि दुःखिता ।केवलं केवलीभावो यस्यान्तरुपलभ्यते ॥४४॥अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ।आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः ॥४५॥वासनाभिरनन्ताभिर्व्योमेव घनराजिभिः ।संदिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि ॥४६॥चिदाकाशात्मना बन्धस्त्वबन्धेनैव कल्पितः ।कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा ॥४७॥तदेवान्यत्वमादत्ते खमहोरात्रयोरिव ।यदतुच्छमनायासमनुपाधि गतभ्रमम् ॥४८॥तत्तत्कल्पनयातीतं तत्सुखायैव कल्पते ।शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा ॥४९॥शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ।शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते ॥५०॥तथा संसारबन्धार्थः प्रेक्षितोऽसौ न लभ्यते ।इदं जगदयं चाहमिति संभ्रान्तमुत्थितम् ॥५१॥बालानां मध्यमे काले छाया वैतालिकी यथा ।कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः ॥५२॥क्षणादसत्तामायान्ति सत्तामपि पुनः क्षणात्।मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ॥५३॥करोति गृहिणीकार्यं सुरतानन्ददा सती ।कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी ॥५४॥नूनं विस्मारयत्येव मन्मथं मातृभावनात् ।भावानुसारिफलदं पदार्थौघमवेक्ष्य च ॥५५॥न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ।दृढभावनया चेतो यद्यथा भावयत्यलम् ॥५६॥तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ।न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥५७॥यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ।भाविताकाशमातङ्गं व्योमहस्तितया मनः ॥५८॥व्योमकाननमातङ्गीं व्योमस्थामनुधावति ।तस्मात्संकल्पमेव त्वं सर्वभावमयात्मकम् ॥५९॥त्यज राम सुषुप्तस्थः स्वात्मनैव भवात्मनः ।मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति ॥६०॥न शक्तो जडभावेन नतु राम भवादृशः ।यदात्मनि जगद्राम तवेह प्रतिबिम्बति ॥६१॥तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनम् ।तदेव सत्यमिति वाप्यभिन्नं परमात्मनः ॥६२॥मत्वान्तस्त्वमनाद्यन्तं भावयात्मानमात्मना ।चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव ।रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा ॥६३॥स्फटिकममननं यथा विशन्तिप्रकटतया न च रञ्जना विचित्रा ।इह हि विमननं तथा विशन्तुप्रकटतया भुवनैषणा भवन्तम् ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे विज्ञानवादो नामैकविंशः सर्गः ॥२१॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP