संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३९ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३९ Translation - भाषांतर श्रीराम उवाच ।भगवन्नेवं स्थिते परे ब्रह्मण्येव विद्यमाने कुतएवाभित्तिचित्ररूपायाः सृष्टेरागम इति कथयमहात्मन् ॥१॥श्रीवसिष्ठ उवाच ।राजपुत्र ब्रह्मतत्त्वमेवेदमावर्तते यस्मात्सर्वशक्तितत्तस्मात्सर्वाः शक्तयो ब्रह्मणि दृश्यन्ते ॥२॥सत्त्वमसत्त्वं द्वित्वमेकत्वमनेकत्वमाद्यत्वमन्त-त्वमिति ॥३॥तच्च नान्यत् । यथा जलराशेर्जलाशय उल्लास-प्रफुल्लासेन नानाकारतां दर्शयन्प्रकटतांगच्छति ॥४॥तथा चिद्धनश्चित्तं चित्त्वाच्च सर्वाः शक्तीः कर्म-मयीर्वासनामयीर्मनोमयीश्चिनोति दर्शयति विभ-र्ति जनयति क्षिपयति चेति ॥५॥सर्वेषामेव जीवानां सर्वासामभितो दृशाम् ।समग्राणां पदार्थानामुत्पत्तिर्ब्रह्मणोऽनिशम् ॥६॥लोकात्परादुपायान्ति तस्मिश्चित्त्वाद्विशन्त्यलम् ।तन्मया एव सततं तरङ्गा इव सागरे ॥७॥श्रीराम उवाच ।भगवंस्तवातिगहनेयं वचनव्यक्तिर्न खल्वद्य वा-क्यार्थमवगच्छामि ॥८क्व किलातीतमनःषष्ठेन्द्रियवृत्ति ब्रह्मतत्त्वं क्व भङ्गु-रेयं तज्जा पदार्थश्रीरिति वचनरचना । यदि चाय-मारम्भो ब्रह्मण आपतितस्तदनेन तत्सदृशेनैवभवितव्यम् ॥९यो यस्माज्जायते स तत्सदृश एव भवति ॥१०॥यथादीपाद्दीपःपुरुषात्पुरुषः सस्यात्सस्यम् ॥११॥यतो निर्विकाराद्यदागतं निर्विकारेणैवानेन भवि-तव्यम् ॥१२॥अथैतद्व्यतिरिक्तं चिदात्मनस्तन्निष्कलङ्कस्य परमे-श्वरस्य येयं कलङ्कापत्तिरित्याकर्ण्य भगवान् ब्रह्म-र्षिरुवाच ॥१३॥ब्रह्मैवेदं स्थितं नाम मलमस्तीह नानघ ।तरङ्गौघगणैरम्भः सिन्धौ स्फुरति नो रजः ॥१४॥द्वितीया कल्पनैवेह न रघूद्वह विद्यते ।ब्रह्ममात्रादृते वह्नावौष्ण्यमात्रादृते यथा ॥१५॥श्रीराम उवाच ।निर्दुःखं ब्रह्म निर्द्वन्द्वं तज्जं दुःखमयं जगत् ।अस्पष्टार्थमिदं ब्रह्मन्न वेद्मि वचनं तव ॥१६॥श्रीवाल्मीकिरुवाच ।इत्युक्ते तत्र रामेण चिन्तयामास चेतसा ।वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने ॥१७॥परं विकासमायाता नास्य तावदियं मतिः ।किंचिन्निर्मलतां प्राप्ता प्रोह्यते चेह वस्तुनि ॥१८॥यो व्युत्पन्नमनास्तस्य ज्ञातज्ञेयस्य धीमतः ।मोक्षोपायगिरां पारं प्रयातस्य विवेकतः ॥१९॥न कश्चित्कस्यचिद्दोषो नास्ति विद्यात्मनि ह्यलम् ।यावन्नोक्तं न विश्रान्तिं तावदेत्येष राघवः ॥२०॥अर्धव्युत्पन्नबुद्धेस्तु नैतद्व्यक्तं हि शोभते ।दृश्यानया भोगदृशा भावयन्नेव नश्यति ॥२१॥परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते ।सर्वं ब्रह्मेति सिद्धान्तः काले नामास्य युज्यते ॥२२॥आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥२३॥अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।महानरकजालेषु स तेन विनियोजितः ॥२४॥प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।नास्त्यविद्यामलमिति युक्तं वक्तुं महात्मनः ॥२५॥अपरीक्ष्य च यः शिष्यं प्रशास्त्यतिविमूढधीः।स एव नरकं याति यावदाभूतसंप्लवम् ॥२६॥इति संचिन्त्य भगवानज्ञानतिमिरापहः ।तमुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः ॥२७॥श्रीवसिष्ठ उवाच ।कलङ्ककलना ब्रह्मण्यस्ति नास्तीति वानघ ।सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि राघव ॥२८॥ब्रह्म सर्वशक्ति सर्वव्यापि सर्वगतं सर्वोहमेवेति। २९यथेन्द्रजालिनः पश्यसि चित्रा मायया क्रियाजनयन्तः सदसत्तां नयन्त्यसच्च सत्तां नयन्ति तथै-वात्मा अमायामयोऽपि मायामय इव परम ऐन्द्रजा-लिको घटं पटं करोति पटं च घटं करोति उपलेलतां जनयति मेरौ कनकतटे नन्दनवनमिव लता-यामुपलमुत्पादयति कल्पपादपेषु रत्नस्तबकमिवव्योम्नि काननमध्यारोपयति ॥३०॥गन्धर्वउद्यानमिव तस्मिन् जगति भविष्यतिगगने कल्पनया नगरतां जनयति नष्टच्छायाञ्जन-मिव व्योम धरातलं नयतीति ॥३१॥गन्धर्वनगरराजगृहे विपुलाङ्गनाजनमिव भूतलेव्योम निवेशयति ॥३२॥रक्तकुट्टिमेष्वाकाशप्रतिबिम्बमिव किंचिदस्तिजगति भविष्यति वा बभूव ॥३३॥यदीश्वरो व्यक्तरूपो विचित्रतामुपेत्य निदर्श-यति। ॥३४॥सर्वमेव सर्वथा सर्वत्र यथा संभवत्येकमेवेहवस्तु विद्यत इति तस्माद्धर्षामर्षविस्मयानां क्व वाऽव-सरो राम ॥३५॥समतयैव सततं धृतिमता स्थातव्यम् ॥३६॥विस्मयस्मयसंमोहहर्षामर्षविकारिताम् ।समतावलितस्तज्ज्ञो न कदाचन गच्छति ॥३७॥अपर्यवसाने देशकालवति चित्रा हि जगतियुक्तयो दृश्यन्ते ॥३८॥एताश्च युक्तीर्नामासावात्मा यत्नेन रचनां करोतिन चोत्पन्नां तिरस्करोति सागर इव वीचीः ॥३९॥किं तर्हि क्षीर इव घृतं घट इव मृदि पट इव तन्तुषुवट इव धानायात्मन्येव स्थिताः शक्तयः प्रकटता-मागता व्यवह्रियन्तेऽविरचितमेव तरङ्गवत् ॥४०॥नात्र कश्चित्कर्ता न भोक्ता न विनाशमेति ॥४१॥केवलमात्मतत्त्वे साक्षिणि निरामये समतया-त्मनि नित्यमसंक्षुब्धे तिष्ठति सत्येवं संपद्यते ॥४२॥सति दीप इवालोकः सत्यर्क इव वासरः ।सति पुष्प इवामोदः स्वतः संपद्यते जगत् ॥४३॥आभासमात्रमेवेदं परिदृश्यत एव च ।स्पन्दः समीरणस्येव न सन्नासदवस्थितम् ॥४४॥निर्दोषवदेव जागतीनां दृष्टीनां परमार्थतो भग-वान्स्थितो विनष्टानां पुनः कर्ता कृतानां वा नाश-यिता स केवलं कदाचित्प्रकटाः कदाचिदल्पप्रकटाःकदाचिदप्रकटास्तारका इव कुसुमराशयः ॥४५॥नश्यतीह हि तद्वस्तु नात्मभूतं यदात्मनः ।कथं नश्यति तद्वस्तु स्वात्मभूतं यदात्मनः ॥४६॥जायते नैव तद्वस्तु नात्मभूतं यदात्मनः ।जायते चैव तद्वस्तु स्वात्मभूतं यदात्मनः ॥४७॥कथं तज्जायते तस्मात्स्वात्मभूतं यदात्मनः ॥४८॥तस्मात्सम्यग्ज्ञानवशाद्ब्रह्मणः सर्वपदार्थानामा-गमः ॥४९॥अवतीर्णानां च तेषामवतरणसमकालमेवाविद्यो-देति तत्त्वज्ञानं दृढतामेति तदनु शतसहस्रस्कन्धोविचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फार-तामेति संसारद्रुमः ॥५०॥आशामञ्जरिताकृतिं विफलितं दुःखादिभिर्दारुणै-र्भोगैः पल्लवितं जराकुसुमितं तृष्णालताभासुरम् ।संसाराभिधवृक्षमात्मनिगडं छित्त्वा विवेकासिनामुक्तस्त्वं विहरेह वारणपतिः स्तम्भादिवोन्मोचितः ॥५१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे सर्वैकत्वप्रतिपादनं नामैकोनचत्वारिशः सर्गः ॥३९॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP