संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५४ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५४ Translation - भाषांतर पुत्र उवाच ।कीदृशस्तात संकल्पः कथदुपद्यते प्रभो ।कथं च वृद्धिमाप्नोति कथं चैष विनश्यति ॥१॥दाशूर उवाच ।अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ॥२॥लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।याति चित्तखमापूर्य दृढजाड्याय मेघवत् ॥३॥भावयन्ती चितिश्चेत्यं व्यतिरिक्तमिवात्मनः ।संकल्पतामुपायाति बीजमङ्कुरतामिव ॥४॥संकल्पेन हि संकल्पः स्वयमेव प्रजायते ।वर्धते स्वयमेवाशु दुःखाय न सुखाय तु ॥५॥संकल्पमात्रं हि जगज्जलमात्रं यथार्णवः ।ऋते संकल्पमन्या ते नास्ति संसारदुःखिता ॥६॥काकतालीययोगेन संजातोऽस्ति मुधैव हि ।मृगतृष्णाद्विचन्द्रत्वभिवासत्यं च वर्धते ॥७॥निगीर्णमातुलिङ्गस्य कनकप्रत्ययो यथा ।स्वयमभ्येत्य सत्योऽन्तः संकल्पस्ते तथा हृदि ॥८॥असत्यमेव जातस्त्वमसत्यमपि वर्तसे ।अस्मिञ्ज्ञाते च विज्ञाने ह्यसत्यं संविलीयते ॥९॥असौ सोऽहमिमे भावाः सुखदुःखमया मम ।व्यर्थमेवेति नानास्था येनान्तः परितप्यसे ॥१०॥असन्नेवास्य जातोऽसि कुतो जन्मविलासतः ।व्यर्थमेवावमूढोऽसि संकल्पवशतः स्वतः ॥११॥मा संकल्पय संकल्पं भावं भावय मा स्थितौ ।एतावतैव भावेन भव्यो भवति भूतये ॥१२॥संकल्पनाशयत्नेन न भयान्यनुगच्छति ।भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् ॥१३॥सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत् ।सुसाध्यो भावमात्रेण नतु संकल्पनाशने ॥१४॥पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते ।तदप्युपकरोत्यस्मिन्न संकल्पपरिक्षये ॥१५॥संकल्पो येन हन्तव्यस्तेन भावविपर्ययात् ।अप्यर्धेन निमेषेण लीलयैव निहन्यते ॥१६॥भावमात्रोपसंपन्ने स्वात्मनि स्थितिमागते ।साध्यते यदसाध्यं तत्कस्य स्यात्किमिवाङ्ग ते ॥१७॥संकल्पेनैव संकल्पं मनसा स्वमनो मुने ।छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् ॥१८॥उपशान्ते हि संकल्पे उपशान्तमिदं भवेत् ।संसारदुःखमखिलं मूलादपि महामते ॥१९॥संकल्पो हि मनो जीवश्चित्तं बुद्धिः सवासना ।नाम्नैवान्यत्वमेतेषां नार्थेनार्थविदां वर ॥२०॥संकल्पनादृते नेह किंचिदेवास्ति कुत्रचित् ।तमेव हृदयाच्छिन्धि किमेतत्परिशोचसि ॥२१॥यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ।असन्मयविकल्पोत्थे उभे एते तते यतः ॥२२॥असिद्धं सर्वमेवैतदसिद्धेनैव साधितम् ।संकल्पेन जगद्यस्माद्भावना क्वावतिष्ठताम् ॥२३॥[ सत्यास्थायामसत्यां तु किंनिष्ठा वासना भवेत् ।]भावनाक्षयतः सिद्धिस्ततः प्राप्यं न शिष्यते ।तस्मादसदिदं सर्वं विज्ञेयं हेलयेद्धया ॥२४॥तनुभावनया तेन सुखदुःखैर्न लिप्यते ।अवस्त्विति च निर्णीय स्नेहास्था न प्रवर्तते ॥२५॥आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ ।तस्मादसदिदं सर्वं सुखदुःखादिविभ्रमैः ॥२६॥मनो जीवः स्फुरत्युच्चैर्मानसं नगरं जगत् ।भविष्यद्वर्तमानं च भूतं च परिवर्तयन् ॥२७॥वासनावलितं लोके स्फुरच्छक्ति मनः स्थितम् ।करोति स्वाशयेनेमां व्यवस्थां मलिनश्चलः ॥२८॥आत्मनः सदृशीं लीलां जीवो हृद्वनमर्कटः ।दीर्घमाकारमादाय निमेषाद्याति ह्रस्वताम् ॥२९॥ग्रहीतुं च न शक्यन्ते संकल्पजलवीचयः ।मनाग्दृष्टा विवर्धन्ते ह्रसन्ति सपरिच्छदाः ॥३०॥तृणमात्रेण दीप्यन्ते संकल्पा वह्निशेषवत् ।जगत्यप्रकटाकाराः प्रदीप्ताः क्षणभङ्गुराः ॥३१॥भ्रमदा जडसंस्थानाः संकल्पास्तडिदग्नयः ।यदेवासन्मयं पुत्र तदेवाशु चिकित्सितुम् ॥३२॥शक्यते नात्र संदेहो नासत्सद्भवति क्वचित् ।संस्थितो यदि संकल्पो दुश्चिकित्स्यः स्वतो भवेत् ॥३३॥किंत्वसद्भूत एवैष सुचिकित्स्यस्तदा भवेत् ।अकृत्रिमं चेत्संसारमलमङ्गारकार्ष्ण्यवत् ॥३४॥तदेतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः ।किंत्वेतत्तण्डुलेष्वेव तुषकञ्चुकवत्स्थितम् ॥३५॥यतस्ततः प्रयत्नेन पौरुषेण विनश्यति ।अकृत्रिममपि प्राप्तं भृशं पुत्र तथा पुनः ॥३६॥सुखोच्छेद्यतया ज्ञस्य संसारमलमाततम् ।तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ॥३७॥नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ।नश्यत्येव न संदेहस्तस्मादुद्यमवान्भव ॥३८॥असत्कल्पैर्विकल्पैर्यत्संसारो न जितो मुधा ।स्तोकेनाशु लयं याति क्वासद्वस्तु चिरं स्थितम् ॥३९॥असत्यामेति संसारः स्वव्यवस्थां विचारतः ।दीपालोकादिवान्धस्य द्वीन्दुत्वं स्वीक्षितादिव ॥४०॥नासौ तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज ।असत्ये सत्यवद्दृष्टे भावना मा स्म हीदृशः ॥४१॥मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमोऽन्तः॥त्वमपि च वितताश्च ते विलासा विलसति सर्वमिदं तदात्मतत्त्वम् ॥४२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दाशूरो० संकल्पचिकित्सा नाम चतुःपञ्चाशः सर्गः ॥५४॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP