संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४२ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।कुपितस्यासतोऽप्यस्य प्रेक्षामात्रविनाशिनः ।अविद्याविततव्याधेरौषधं श्रृणु राघव ॥१॥यां तां कथयितुं जातिं राम राजससात्त्विकीम् ।मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां श्रृणु ॥२॥यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ॥३॥चित्स्पन्दवपुषस्तस्य स्पन्दस्तस्माच्चिदेव हि ।प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव ॥४॥अन्तरब्धेर्जलं यद्वत्स्पन्दास्पन्दवदीहते॥सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम् ॥५॥आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः ।तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ॥६॥स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो यथोन्नतम् ।एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति ॥७॥जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव चञ्चलः ।सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान् ॥८॥यथोल्लसति भाश्चक्रैः कचन्कनकसागरः ।तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः ॥९॥लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशोऽदृशि ।तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे ॥१०॥किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे ।तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे ॥११॥आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति ।आलोकश्रीरिवालोककोटरे यत्ततां गता ॥१२॥क्षणं स्फुरति सा देवी सर्वशक्तितया तया ।चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव ॥१३॥उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः ।देशकालक्रियाशक्तीर्वयस्याः संप्रकर्षति ॥१४॥स्वस्वभावं विदित्वैवमनाद्यन्तपदे स्थिता ।रूपं परिमितेवासौ भावयत्यविभाविता ॥१५॥यदैवंभावितं रूपं तया परमसत्तया ।तदैवैनामनुगता नामसंख्यादिका दृशः ॥१६॥चिदेवैतदवस्त्वेव व्यतिरिक्ता तथात्मनः ।अनन्ता तद्गतैवाशु लहरीव महार्णवात् ॥१७॥यथा कटककेयूरैर्भेदो हेम्नो विलक्षणः ।तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम् ॥१८॥यथा दीपेन दीपानां जातानामात्मनां तथा ।देशकालकलामात्रभेदः स्वाभाविकश्चितेः ॥१९॥देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् ।संकल्पमनुधावन्ती प्रयाति कलनापदम् ॥२०॥विकल्पकलिताकारं देशकालक्रियास्पदम् ।चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते ॥२१॥क्षेत्रं शरीरमित्याहुस्तदसौ वेत्त्यखण्डितम् ।सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते ॥२२॥वासनां कलयन्सोऽपि यात्यहंकारतां पुनः ।अहंकारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते ॥२३॥बुद्धिः संकल्पकलिता प्रयाति मनसः पदम् ।मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ॥२४॥पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ।दहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति ॥२५॥एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।दुःखजालपरीतात्मा क्रमादायाति चित्तताम् ॥२६॥क्रमेण पाकवशतः फलमेति यथान्यताम् ।अवस्थयैव नाकृत्या जीवो मलवशात्तथा ॥२७॥जीवोऽहंकारतां प्राप्तस्त्वहंकारश्च बुद्धिताम् ।संकल्पजालकलितां मनस्तां बुद्धिरागता ॥२८॥मनो हि संकल्पमयं संस्थाग्रहणतत्परम् ।प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः ॥२९॥इच्छाद्याः शक्तयश्चेतो गावो वृषमिवोन्मदम् ।अनुधावन्ति दोषाय सरितः सागरं यथा ॥३०॥इति शक्तिमयं चेतो घनाहंकारतां गतम् ।कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् ॥३१॥स्वसंकल्पानुसंधानात्पाशैरिव नयन्वपुः ।कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते ॥३२॥बद्धमस्मीति कलयद्विद्यातत्त्वं जहच्छनैः ।अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम् ॥३३॥स्वसंकल्पिततन्मात्रज्वालाभ्यन्तरवर्ति च ।परां विवशतामेति श्रृङ्खलाबद्धसिंहवत् ॥३४॥विचित्रकार्यकर्तृत्वमाहरद्वासनावशात् ।स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा ॥३५॥क्वचिन्मनः क्वचिद्रुद्धिः क्वचिज्ज्ञानं क्वचित्क्रियाः ।क्वचिदेतदहंकारः क्वचित्पुर्यष्टकं स्मृतम् ॥३६॥क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।क्वचिन्मलमितिप्रोक्तं क्वचित्कर्मेतिसंस्थितम् ॥३७॥क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति स्फुटम् ।प्रोक्तं क्वचिदविद्येतिक्वचिदिच्छेति संस्थितम् ॥३८॥तदेतदाबद्धमिह चित्तं राघव दुःखितम् ।तृष्णाशोकसमाविष्टं रागायतनमाततम् ॥३९॥जरामरणमोहान्तर्भवभावनयाहतम् ।ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम् ॥४०॥इच्छासंक्षुभिताकारं कर्मवृक्षवनाङ्कुरम् ।सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम् ॥४१॥कोशकारवदाबद्धं शोकाकारपदं गतम् ।तन्मात्रवृन्दावयवमनन्तनरकातपम् ॥४२॥स्वदृश्यमपि शैलेन्द्रसमभारभयावहम् ।जरामरणशाखाढ्यं संसारविषदुर्द्रुमम् ॥४३॥इमं संसारमखिलमाशापाशविधायकम् ।दधदन्तः फलैर्हीनं वटधाना वटं यथा ॥४४॥चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम् ॥४५॥मृगं यूथादिव भ्रष्टं शोकोपहतचेतनम् ।पतङ्गकमिव ज्वालादग्धं विषयपावके ॥४६॥छिन्नमूलमिवाम्भोजं परमां म्लानिमागतम् ।छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम् ॥४७॥विषयादिषु मध्यस्थं चित्ररूपेषु शत्रुषु ।दशास्वेतास्वनन्तासु लुठितं संकटास्विति ॥४८॥दुःखे निपतितं घोरे विहङ्गः सागरे यथा ।स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने ॥४९॥उह्यमानमनास्थाब्धौ मनो विषयविद्रुतम् ।उद्धरामरसंकाश मातङ्गमिव कर्दमात् ॥५०॥बलीवर्दवदामग्नं मनो मदनपल्वले ।आलूनशीर्णावयवं बलाद्राम समुद्धर ॥५१॥शुभाशुभप्रसरपराहताकृतौज्वलज्जरामरणविषादमूर्च्छिते ।व्यथेह यस्य मनसि भो न जायतेनराकृतिर्जगति स राम राक्षसः ॥५२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जीवावतरणं नाम द्विचत्वारिंशः सर्गः ॥४२॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP