संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २५ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अस्मिन्विहरतो लोके लोकारामस्य धीमतः ।श्रेयसे तिष्ठतो यत्नमुत्तमार्थाभिधायिनः ॥१॥दामव्यालकटन्यायो मा ते भवतु राघव ।भीमभासदृढस्थित्या त्वं विशोको भवेति च ॥२॥श्रीराम उवाच ।दामव्यालकटन्यायो मा ते भूदित्युदाहृतम् ।ब्रह्मन् किमेतद्भवता भवतापापहारिणा ॥३॥भीमभासदृढस्थित्या त्वं विशोको भवेति च ।प्रभो किमुक्तं भवता भवतापापहारिणा ॥४॥उदारयैतया शुद्धं संप्रबोधय मां गिरा ।घनस्तापापहारिण्या प्रावृषीव कलापिनम् ॥५॥श्रीवसिष्ठ उवाच ।दामव्यालकटन्यायं भीमभासदृढस्थितिम् ।श्रृणु राघव तच्छ्रुत्वा यदिष्टं तत्समाचर ॥६॥आसीत्पातालकुहरे सर्वाश्चर्यमनोरमे ।शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः ॥७॥आकाशनगरोद्यानरचितासुरमन्दिरः ।कुत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः ॥८॥शिलाशकलसंभूतपद्माद्यैरमराचलः ।अनन्तविभवारम्भपरिपूरितदानवः ॥९॥गृहरत्नाङ्गनागेयजितामरवधूध्वनिः ।चन्द्रबिम्बकलापूर्णक्रीडोपवनपादपः ॥१०॥फुल्लनीलोत्पलव्यूहकरालरमणालयः ।रत्नहंसध्वनाहूतहेमाम्बुरुहसारसः ॥११॥हेमपादपशाखाग्रकृताम्भोरुहकुड्मलः ।करञ्जजालप्रपतन्मन्दारकुसुमाकरः ॥१२॥तर्कुयन्त्रमयानन्तदैत्यनिर्जितवासवः ।हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥१३॥सर्वत्र कुसुमोद्यानजितानन्दननन्दनः ।मायासर्वहृतव्यालमलयाचलचन्दनः ॥१४॥हेमश्रीलोकलावण्यनिर्जितान्तःपुराङ्गनः ।नानाकुसुमसंभारजानुदघ्नगृहाङ्गणः ॥१५॥क्रीडार्थमृन्मयेशानजितचक्रगदाधरः ।अजस्रोड्डीनरत्नौघताराढ्यखपुरान्तरः ॥१६॥निशीथाखिलपातालशतचन्द्रनभस्तलः ।स्वशालभञ्जिकालोकगीतगीतिरणोत्कटः ॥१७॥मायैरावणनागेन्द्रविद्रुतामरवारणः ।त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥१८॥सर्वसंपत्तिसुभगः सर्वैश्वर्यनमस्कृतः ।समस्तदैत्यसामन्तवन्दितोग्रानुशासनः ॥१९॥महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।सर्वबुद्धिगणाधाररत्नमण्डलमण्डितः ॥२०॥तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।बभूव विपुलं सैन्यमासुरं सुरनाशनम् ॥२१॥तस्मिन्मायाबले सुप्ते देशान्तरगते तथा ।तत्सैन्यं तरसा जघ्नुश्छिद्रं प्राप्य किलामराः ॥२२॥अथ शम्बरदैत्येन मुण्डिक्रोधद्रुमादयः ।रक्षार्थमथ सामन्ताः स्वसेनासु नियोजिताः ॥२३॥तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकाः ।व्योमान्तरगताः श्येनाः कलविङ्कानिवाकुलान् ॥२४॥सेनापतीन्पुनश्चान्यांश्चकारासुरसत्तमः ।चपलानुद्भटारावांस्तरङ्गानिव सागरः ॥२५॥देवास्तानपु तस्याशु जघ्नुस्तेन स कोपवान् ।जगामामरनाशाय परिपूर्णे त्रिविष्टपम् ॥२६॥तस्मात्तन्माययाभीताः सुरास्तेऽन्तर्धिमाययुः ।मेरुकाननकुञ्जेषु मृगा गौरीहरेरिव ॥२७॥क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नाप्सरोमुखम् ।शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥२८॥विहरन्कुपितस्तत्र लब्धमाहृत्य सुन्दरम् ।लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम् ॥२९॥एवं दृढतरीभूते द्वेषे दानवदेवयोः ।देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् ॥३०॥अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।क्रियन्ते यत्नतस्तांस्तु जघ्नुर्यत्नपराः सुराः ॥३१॥यावदुद्बेगमायातः शम्बरः कोपवान्भृशम् ।तार्णोऽतिमात्रमनल इव जज्वाल सोच्छ्वसन् ॥३२॥त्रैलोक्यमपि चान्विष्यन्न देवाँल्लब्धवानथ ।परेणापि प्रयत्नेन निधानमिव दुष्कृती ॥३३॥ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् ।बलरक्षार्थमुदितान्कालान्मूर्तिमिव स्थितान् ॥३४॥निर्वृत्ता मायया भीमा बलपादपवाहिनः ।उदगुस्ते महामायाः पक्षक्षुब्धा इवाद्रयः ॥३५॥दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः ।यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः ॥३६॥अभावात्कर्मणां ते च प्राक्तना नच वासनाः ।निर्विकल्पकचिन्मात्रपरिस्पन्दैकधर्मकाः ॥३७॥कर्मजीवकलां तन्वीमसारां च मनोभिदाम् ।अपुष्टां कृत्रिमामन्तश्चोदयोदयमागताः ॥३८॥ते ह्यन्धपारम्पर्येण काकतालीयवद्भटाः ।प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः ॥३९॥अर्धसुप्ता यथा बालाः स्वाङ्गै रिङ्गन्ति केवलम् ।वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि ॥४०॥नाभिपातं न चापातं न विदुस्ते पलायनम् ।न जीवितं न मरणं न रणं न जयाजयौ ॥४१॥केवलं सैनिकानग्रे दृष्टानाहननोद्यतान् ।अभिजग्मुः परानाजौ प्रहारदलिताद्रयः ॥४२॥शम्बरश्चिन्तयामास परितुष्टमनाः परम् ।विजेष्यते हि मे सेना मायासुरसुरक्षिता ॥४३॥अतिबलासुरदोर्द्रुमपालितामम चमूः स्थिरतामलमेष्यति ।अमरवारणदन्तविघट्टने-ष्वमरपर्वतहेमशिला यथा ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः ॥२५॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP