संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४६ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।रम्ये धनेषु दारादौ शोकस्यावसरो हि कः ।इन्द्रजालेक्षणाद्दृष्टे नष्टे का परिदेवना ॥१॥गन्धर्वनगरस्यार्थे दूषिते भूषिते तथा ।अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥२॥रम्ये धनेऽथ दारादौ हर्षस्यावसरो हि कः ।वृद्धायां मृगतृष्णायां किमानन्दो जलार्थिनाम् ॥३॥धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टयः ।वृद्धायां मोहमायायां कः समाश्वासवानिह ॥४॥यैरेव जायते रागो मूर्खस्याधिकतागतैः ।तैरेव भोगैः प्राज्ञस्य विराग उपजायते॥५॥नष्टे धनेऽथ दारादौ हर्षस्यावसरो हि कः ।पारावलोकिनस्त्वेतैर्विरागं यान्ति साधवः ॥६॥अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः ।नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥७॥अनागतानां भोगानामवाञ्छनमकृत्रिमम् ।आगतानां च संभोग इति पण्डितलक्षणम् ॥८॥संसारसंभ्रमे ह्यस्मिंश्छन्नात्मन्याततायिनि ।तथा विहर संबुद्धो यथा नायासि मूढताम् ॥९॥संसाराडम्बरस्यास्य प्रपञ्चरहिते क्रमे ।सम्यग्ज्ञा नानुपश्यन्ति ये हतास्ते कुबुद्धयः ॥१०॥यया कयाचिद्युक्त्यैव दृश्याद्यस्य गता रतिः ।परिमज्जति तस्यास्था न क्वचिद्विमला मतिः ॥११॥यस्यासदिदमित्यास्था निवृत्ता सर्ववस्तुषु ।क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी ॥१२॥अहं जगच्चैकमिदं सर्वमेवेति यस्य धीः ।आस्थानास्थे परित्यज्य संस्थिता स न मज्जति ॥१३॥शुद्धं सदसतोर्मध्यं पदं बुद्ध्याऽवलम्ब्य च ।सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥१४॥अत्यन्तविरतः स्वस्थः सर्ववासविवर्जितः ।व्योमवत्तिष्ठ नीरागो राम कार्यपरोऽपि सन् ॥१५॥यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥१६॥दर्शनस्पर्शनादीनि मा करोतु करोतु च ।तवेन्द्रियमनो गौणं त्वमनिच्छो भवात्मवान् ॥१७॥ममेदमित्यसद्भूतमिन्द्रियार्थे भवन्मनः ।मा निमज्जत्वमग्नः सन्मा करोतु करोतु वा ॥१८॥यदा ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव ।तदा विज्ञातविज्ञानः समुत्तीर्णभवार्णवः ॥१९॥आस्वादितेन्द्रियार्थस्य सतनोरतनोरपि ।अनिच्छतोऽपि संपन्ना मुक्तिरर्थवशात्तव ॥२०॥उच्चैःपदाय परया प्रज्ञया वासनागणात् ।पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु ॥२१॥संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।ये प्रज्ञा नावमारूढास्ते तीर्णा वुडिताः परे ॥२२॥क्षुरधाराप्रमितया धिया परमधीरया ।प्रविचार्यात्मनस्तत्त्वं ततः स्वपदमाविश ॥२३॥यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः ।विहरन्ति तथा राम विहर्तव्यं न मूढवत् ॥२४॥जीवन्मुक्ता महात्मानो नित्यतृप्ता महाधियः ।आचारैरनुगन्तव्या न भोगकृपणाः शठाः ॥२५॥न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥२६॥प्रभावस्याभिमानस्य गुणानां यशसः श्रियः ।न क्वचित्कृपणा लोके महान्तस्तत्त्वदर्शिनः ॥२७॥सुशून्येऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः ।नियतिं च न मुञ्चन्ति महान्तो भास्करा इव ॥२८॥विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः ।विचरन्ति समुन्नद्धाः स्वस्था देहरथे स्थिताः ॥२९॥त्वमपि प्राप्तवान् राम विवेकमिममाततम् ।प्रज्ञाबलेन चानेन ज्ञाने स्वस्थोऽसि सुन्दर ॥३०॥स्पष्टां दृष्टिमवष्टभ्य निर्मानो गतमत्सरः ।विहरास्मिन्भुवः पीठे परां सिद्धिमवाप्स्यसि ॥३१॥स्वस्थः सर्वेहितत्यागी दूरालोकनवाञ्छनः ।परां शीतलतामन्तरादाय विहरानघ ॥३२॥श्रीवाल्मीकिरुवाच ।इत्थं गिरा विमलया विमलाशयस्यरामो मुनेः सपदि मृष्ट इवाबभासे ।ज्ञानामृतेन मधुरेण विराजितान्तःपूर्णः शशाङ्क इव शीतलतां जगाम ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः ॥४६॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP