संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २९ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवंप्रायाकुलारम्भैरसुरैरसुहारिभिः ।सहसा हृतसंरब्धैरारब्धः सुमहान् रणः ॥१॥माययाथ विवादेन सन्धिना विग्रहेण च ।पलायनेन धैर्येण च्छन्नगोपायनेन च ॥२॥कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।धृतः स संगरो देवैस्त्रिंशद्वर्षाणि पञ्चकम् ॥३॥वर्षाणि दिवसान्मासान्दशाष्टौ सप्त पञ्च च ।वर्षाणि पेतुर्वृक्षाग्निहेत्येकाशनिभूभृताम् ॥४॥एतावता तु कालेन दृढाभ्यासादहंकृतेः ।दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥५॥नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।अभ्यासातिशयात्तद्वत्ते साहंकारतां गताः ॥६॥यद्वद्दूरगतं वस्तु नादर्शे प्रतिबिम्बति ।पदार्थवासना तद्वदनभ्यासान्न जायते ॥७॥यदा दामादयो जाता अहंकारात्मवासनाः ।तदा मे जीवितं मेऽर्थ इति दैन्यमुपागताः ॥८॥भववासनया ग्रस्ता मोहवासनया ततः ।आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥९॥मुग्धेव ह्यनहंकारैर्ममत्वमुपकल्पितम् ।रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥१०॥आपादमस्तको देहः कथं मे भवतु स्थिरः ।ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥११॥स्थिरो भवतु मे देहः सुखायास्तु धनं मम ।इति बद्धधियां तेषां धैर्यमन्तर्द्धिमाययौ ॥१२॥सवासनत्वाद्वपुषामल्पसत्त्वात्सुरद्विषाम् ।या तु प्रहारपरता मार्जितेवाशु साभवत् ॥१३॥कथं सुरा जगत्यस्मिन्भवाम इति चिन्तया ।विवशा दीनतां जग्मुः पद्मा इव निरम्भसः ॥१४॥तेषां योषान्नपानेन स्वाहंकृतिमतां रतिः ।बभूव भावभावस्था भीषणा भवभाजिनी ॥१५॥अथ तस्मिन्रणे भीत्या सापेक्षत्वमुपाययुः ।मत्तेभघनसंरब्धे वने हरिणका इव ॥१६॥मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥१७॥शरीरैकार्थिनां तेषां भीतानां मरणादपि ।अल्पसत्त्वतया मूर्घ्नि कृतमेव परैः पदम् ॥१८॥अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।न शेकुरिन्धने क्षीणे हविर्दग्धुमिवाग्नयः ॥१९॥विबुधानां प्रहरतां मशकत्वमुपागताः ।क्षतविक्षतसंघातास्तस्थुः सामान्यसद्भटाः ॥२०॥बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।दैत्या देवेषु वलगत्सु दुद्रुवुः समराजिरात् ॥२१॥तेषु द्रवत्सु भीतेषु सर्वतो दानवादिषु ।दामव्यालकटाख्येषु विख्यातेषु सुरालये ॥२२॥तद्दैत्यसैन्यं न्यपतद्विद्रुतं खादितस्ततः ।कल्पान्तपवनोद्भूतं ताराजालमिवाभितः ॥२३॥अमराचलकुञ्जेषु शिखराणां शिखासु च ।तटेषु वारिराशीनां पयोदपटलेषु च ॥२४॥सागरावर्तगर्तेषु श्वभ्रेषूद्यत्सरित्सु च ।जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥२५॥तद्वाणोच्छिन्नदेशेषु ग्रामेषु नगरेषु च ।अटवीषूग्रपक्षासु मरुभूमिदवाग्निषु ॥२६॥लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।आन्ध्रद्वविडकाश्मीरपारसीकपुरेषु च ॥२७॥नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।द्वीपान्तरेषु जालेषु जम्बूखण्डलतासु च ॥२८॥सर्वतः पर्वताकाराः पतितास्ते सुरारयः ।विस्फोटिताङ्गचरणा विभिन्नकरबाहवः ॥२९॥शाखालग्नान्त्रतन्त्रीका मुक्तरक्तभरच्छटाः ।व्यस्तशेखरमूर्धानो निष्क्रान्ताः कुपितेक्षणाः ॥३०॥सायुधा बलमायेषुच्छिन्नकङ्कटहेतयः ।दूरापातविपर्यस्तपतन्नानायुधांशुकाः ॥३१॥कण्ठलम्बिशिरस्त्राणचटत्कारोग्रभीतयः ।शिखाशतशिलाप्रोता देहभागविलम्बिनः ॥३२॥शाल्मल्युग्रदृढापातकटत्कण्टकसंकटाः ।सुशिलाफलकास्फालशतधाशीर्णमस्तकाः ॥३३॥सर्वं एव सकलायुधशस्त्र-पातमात्रसमनन्तरमेव ।दिक्षु नाशमगमन्नसुरेन्द्राःपांसवोऽम्बुदनिधौ पयसीव ॥३४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दामव्यालकटोपाख्याने असुरपरिभ्रंशो नामैकोनत्रिंशः सर्गः ॥२९॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP