संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५१ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।ततःप्रभृति तत्रासौ प्रसिद्धस्तापसाश्रमे ।कदम्बदाशूर इति शूरस्तपसि दारुणे ॥१॥तस्मिँल्लतादले स्थित्वा विलोक्य ककुभः क्षणात् ।दृढपद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना ॥२॥अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता ।फलकार्पण्ययुक्तेन मनसा सोऽकरोन्मखम् ॥३॥नभोगतलतापत्रसंस्थितेनान्तरात्मना ।सर्वाः स्वमनसा तेन कृता यज्ञक्रियाः क्रमात् ॥४॥तत्रासौ दश वर्षाणि मनसैवायजत्सुरान् ।गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः ॥५॥कालेनामलतां याते वितते तस्य चेतसि ।बलादवततारान्तर्ज्ञानमात्मप्रसादजम् ॥६॥ततो विशीर्णावरणो विगलद्वासनामलः ।स ददर्शैकदा तस्यां लतायामग्रतः स्थिताम् ॥७॥वनदेवीं विशालाक्षीमालोककुसुमाम्बराम् ।कामिनीं कान्तवदनां मदघूर्णितलोचनाम् ॥८॥नीलोत्पलामोदवतीमतीव सुमनोहराम् ।तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम् ॥९॥कोकिलाकुसुमापूरनतां वनलतामिव ।का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरा ॥१०॥वयस्यामिव पुष्पाढ्यां लतां किमिव तिष्ठसि ।इत्युक्ते मृगशावाक्षी गौरपीनपयोधरा ॥११॥मुनिमाह मनोहारि मुग्धाक्षरमिदं वचः ।यानि यानि दुरापानि वाञ्छितानि महीतले ॥१२॥प्राप्यन्ते तानि तान्याशु महतामेव याच्ञया ।अहमस्मिँल्लताकीर्णे त्वत्कदम्बाभ्यलंकृते ॥१३॥लतालीलालया ब्रह्मन्विपिने वनदेवता ।यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे ॥१४॥बभूव वनदेवीनां समाजो नन्दने वने ।तत्राहमगमं नाथ त्रैलोक्यललनासदः ॥१५॥तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे ।अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम् ॥१६॥त्वयि सर्वार्थसार्थस्य बृहत्कल्पतरौ स्थिते ।अनाथेव कथं नाथ किल शोचाम्यपुत्रिका ॥१७॥देहि मे भगवन्पुत्र नो चेद्देहमिहाग्नये ।प्रकरोम्याहुतिं पुत्र दुःखदाहोपशान्तये ॥१८॥तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः ।आह हस्तगतं पुष्पं तस्यै दत्त्वा दयान्वितः ॥१९॥गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचनम् ।प्रसोष्यसे सुतं कान्तं प्रसूनमिव सल्लता ॥२०॥किंत्वसौ मरणावेशयायिन्या नस्त्वया सुतः ।याचितः कृच्छ्रं संप्राप्य ज्ञाता तेन भविष्यति ॥२१॥इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम् ।परिचर्यां करोमीति प्रार्थनोत्कां व्यसर्जयत् ॥२२॥सा जगामात्मसदनं सोऽतिष्ठत्स्वात्मना सह ।अवहत्क्रमशः काल ऋतुसंवत्सराङ्कितः ॥२३॥अथ दीर्घेण कालेन सैवोत्पलविलोचना ।द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ ॥२४॥सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमाननम्।उवाच कलया वाचा चूतद्रुमभिवालिनी ॥२५॥अयं स भगवन्भव्यः कुमारः पुत्र आवयोः ।कृतो मया समग्राणां कलानां किल कोविदः ॥२६॥प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम् ।येन संसारचक्रेऽस्मिन्न पुनः परिपीड्यते ॥२७॥ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना ।को हि नाम कुले जातं पुत्रं मौर्ख्येण योजयेत् ॥२८॥एवं वदन्तीं स मुनिः सच्छिष्यमबले सुतम् ।इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत् ॥२९॥तस्यां गतायां स पितुरन्तेवासितया तया ।अतिष्ठत्संयतो धीमानर्कस्येवारुणः पुरः ॥३०॥कदर्थः प्राप्य विज्ञानं ततश्चित्राभिरुक्तिभिः ।चिरकालमसौ तत्र मुनिः पुत्रमबोधयत् ॥३१॥आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः ।तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः ॥३२॥अनुद्वेगितया नित्यं विस्तरेण कथाक्रमैः ।अनुभूतिमुपारूढै रूढिमेति यथा मयि ॥३३॥अनुभववशतो रसातिरिक्तै-रलमुचितार्थवचोगणैर्महात्मा ।जलद इव शिखण्डिनं पुरःस्थंतनयमबोधयदम्बरे महर्षिः ॥३४॥इत्यार्षे श्रीवसिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे दाशूरो० दाशूरसुतानुबोधनं नामैकपञ्चाशः सर्गः ॥५१॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP