संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः १० स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः १० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १० Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।भृगुः परमसंबोधाद्विरराम समाधितः ॥१॥नापश्यदग्रे तनयं विनयावनताननम् ।सामन्तं गुणसेनायाः पुण्यं मूर्तमिव स्थितम् २॥अपश्यत्केवलं कायकङ्कालं पुरतो महत्।देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत् ॥३॥तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥४॥नेत्रगर्तकसंसक्तप्रसूतनवकीटकम्।पर्शुकापञ्जरप्रोतकोशकारकृमिव्रजम् ॥५॥प्राक्तनीऽमुपभोगेहामिष्टानिष्टफलप्रदाम्।धाराधौतान्त्रया तद्वद्भृशं शुष्कास्थिमालया ॥६॥शिरोघटेन शुभ्रेण मसृणेनेन्दुवर्चसा ।विडम्बयच्च कर्पूराप्लुतलिङ्गशिरःश्रियम् ॥७॥ऋज्व्या संशुष्कशिरया स्वास्थिमात्रावशेषया ।ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् ॥८॥मृणालिकापाण्डुरया धारावभृतमांसया ।नासाग्रास्थिकया वक्त्रे कृतसीमाकृतिं दधत् ॥९॥दीर्घकन्धरया नूनमुन्नतीकृतवक्त्रया ।प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे ॥१०॥ जङ्घोरुजानुदोर्दण्डैर्द्विगुणां दीर्घतां गतैः ।प्रतिष्ठानमिवाशान्तं दीर्घाध्वश्रमभीतितः ॥११॥उदरेणातिरिक्तेन चर्मशेषेण शोषिणा ।प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम् ॥१२॥प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः ।पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः ॥१३॥आलोकसमकाले हि प्रतिभानं ततो भृगोः ।चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात् ॥१४॥अचिन्तयत एवास्य भविष्यं तनयं ततः ।कालं प्रति बभूवाशु कोपः परमदारुणः ॥१५॥अकाल एव मत्पुत्रो नीतः किमिति कोपितः ।कालाय शापमुत्सष्टुं भगवानुपचक्रमे ॥१६॥अथाकलितरूपोऽसौ कालः कवलितप्रजः ।आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ ॥१७॥खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः ।षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया ॥१८॥यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥१९॥यत्करस्थत्रिशूलाग्रनिःसृतैरग्निमण्डलैः ।विरेजुरुदितैराशाः कानकैरिव कुण्डलैः ॥२०॥यत्परश्वसनापास्तशिखरा मेदिनीभृतः ।दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः ॥२१॥यत्खड्गमण्डलोद्द्योतैः श्यामं बिम्बं विवस्वतः ।कल्पदग्धजगद्धूमपर्याकुलमिवावभौ ॥२२॥स उपेत्य महाबाहो कुपितं तं महामुनिम् ।कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह ॥२३॥विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।हेतुनापि न मुह्यन्ति किं नु हेतुं विनोत्तमाः ॥२४॥त्वमनन्ततपा विप्रो वयं नियतिपालकाः ।तेन संपूज्यसे पूज्यः साधो नेतरयेच्छया ॥२५॥मा तपःक्षपयाऽबुद्धे कल्पकालमहानलैः ।यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥२६॥संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।भुक्तानि विष्णुवृन्दानि क्व न शक्ता वयं मुने ॥२७॥भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः ।स्वयं नियतिरेषा हि नावयोरेतदीहितम् ॥२८॥स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः ।भोक्तारं भोजनं याति सृष्टिं चाप्यन्तकः स्वयम्॥२९॥इदमित्थं मुने रूपं ममेह परमात्मनः ।स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते ॥३०॥नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।बहवश्चेह कर्तारो दृष्ट्याऽनष्टकलङ्कया ॥३१॥कर्तृताकर्तृते ब्रह्मन्केवलं परिकल्पिते ।असम्यग्दर्शनेनैव न सम्यग्दर्शनस्य ते ॥३२॥पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च ।स्वयमायान्ति यान्तीह कल्पते हेतुनामभिः ॥३३॥अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु ॥३४॥मनो मिथ्याभ्रमाभोगे कर्तृताकर्तृतामयीम् ।करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ॥३५॥तेन मागा मुने कोपमापदामीदृशः क्रमः ।यद्यथा तत्तथैवाशु सत्यमालोकयाकुलः ॥३६॥न वयं प्रतिभार्थेहा नाभिमानवशीकृताः ।स्वतो हि तात वशगाः केवलं नियतौ स्थिताः ॥३७॥प्रकृतव्यवहारेहानियतीर्निंयतेर्वशात् ।प्राज्ञाः समभिवर्तन्ते नाभिमानमहातमः ॥३८॥कर्तव्यमेव नियतं केवलं कार्यकोविदैः ।सुषुप्तिवृत्तिमाश्रित्य कदाचित्त्वं न नाशय ॥३९॥क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि ॥४०॥स्वकर्मफलपाकोत्थामविचार्य दशां मुने ।किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमिच्छसि ॥४१॥देहिनामिह सर्वेषां शरीरं द्विविधं मुने ।किं न जानासि तं देहमेकमन्यन्मनोभिधम् ॥४२॥तत्र देहो जडोऽत्यर्थमाविनाशपरायणः ।मनस्तुच्छं च नियतं कदर्थीक्रियते तव ॥४३॥चतुरेण यथा साधो रथः सारथिनोह्यते ।कुर्वता किंचन स्नेहाद्देहोऽयं मनसा तथा ॥४४॥असत्संकल्पः क्रियते सच्छरीरं विनाश्यते ।क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥४५॥चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते ।तद्बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥४६॥अयं देह इवात्रस्थमिदमङ्गमिदं शिरः ।इदं स्फारविकारं तन्मन एवाभिधीयते ॥४७॥मनो हि जीवाज्जीवाख्यं निश्चयैकतया नु धीः ।अहङ्कारोऽभिमन्तृत्वान्नानाता स्वयमेव हि ॥४८॥देहवासनया चेतस्त्वन्यानि स्वानि चेच्छया ।पार्थिवानि शरीराणि ह्यसन्ति परिपश्यति ॥४९॥आलोकयति चेत्सत्यं तदा सत्यमयीं मनः ।शरीरभावनां त्यक्त्वा परामायाति निर्वृतिम् ॥५०॥तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते ।स्वमनोरथमार्गेण दूराद्दूरतरं गतम् ॥५१॥इममौशनसं त्यक्त्वा देहं मन्दरकन्दरे ।प्रयातो वैबुधं सद्म नीडोड्डीनः खगो यथा ॥५२॥तत्र मन्दरगुञ्जेषु पारिजाततलेषु च ।नन्दनोद्यानखण्डेषु लोकपालपुरेषु च ॥५३॥मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् ।असेवत महातेजाः षट्पदः पद्मिनीमिव ॥५४॥तीव्रसंवेगसंपन्नस्वसंकल्पोपकल्पिते ।अथ पुण्यक्षये जाते नीहार इव शार्वरे ॥५५॥प्रम्लानकुसुमोत्तंसः खिन्नाङ्गावयवोल्लसः ।स पपात तया सार्धं कालपक्वं फलं यथा ॥५६॥वैबुधं तत्परित्यज्य नभस्येव शरीरकम् ।भूताकाशमथासाद्य वसुधायां व्यजायत ॥५७॥आसीद्विप्रो दशार्णेषु कोसलेषु महीपतिः ।धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे ॥५८॥सूर्यवंशे नृपः पौण्ड्रः सौरशाल्वेषु देशिकः ।कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः ॥५९॥मद्रेष्वथ महीपालस्ततस्तापसबालकः ।वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः ॥६०॥अन्यास्वपि विचित्रासु वासनावशतः स्वयम् ।विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु ॥६१॥अभूद्विन्ध्यनगे भूयः किरातः कैकटेषु च ।सौवीरेष्वथ सामन्तस्त्रिगर्तेषु च गर्दभः ॥६२॥वंशगुल्मः किरातेषु हरिणश्चीनजङ्गले ।सरीसृपस्तालवृक्षे तमाले वनकुक्कुटः ॥६३॥अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।प्रजजाप पुरा विद्यां विद्याधरपुरप्रदाम् ॥६४॥तेनासावभवद्ब्रह्मन्व्योम्नि विद्याधरो महान् ।हारकुण्डलकेयूरलीलानिचयलालकः ॥६५॥नायिकानलिनीभानुः पुष्पचाप इवापरः ।विद्याधरीणां दयितो गन्धर्वपुरभूषणः ॥६६॥स कल्पावधिमासाद्य द्वादशादित्यधामनि ।जगाम भस्मशेषत्वं शलभः पावके यथा ॥६७॥जगन्निर्माणरहिते स्फारे नभसि सा ततः ।वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥६८॥अथ कालेन संजाते विचित्रारम्भकारिणि ।संसाररचनारम्भे ब्राह्मे रात्रिविपर्यये ॥६९॥सा मुने वासना तस्य वातव्याचलिता सती ।कृते ब्राह्मणतामेत्य जातोऽद्य वसुधातले ॥७०॥वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।जातो मतिमतां मध्ये समधीताखिलश्रुतिः ॥७१॥कल्पं विद्याधरो भूत्वा नद्यास्त्वथ महामुने ।तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः ॥७२॥विविधविषयवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु ।जगति जठरयोनिषु प्रयातो गहनतरासु च काननस्थलीषु ॥७३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः ॥१०॥ N/A इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः ॥१०॥ Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP