संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३१ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अतः प्रबोधाय तव वच्मि राम महामते ।दामव्यालकटन्यायो मा तेऽस्त्विति तु लीलया ॥१॥अविवेकानुसंधानाच्चित्तमापदमीदृशीम् ।अनन्तभवदुःखाय परिगृह्णाति हेलया ॥२॥क्व किलामरविध्वंसिशम्बरानीकनाथता ।क्व तापतप्तजम्बालजालजर्जरमीनता ॥३॥क्व धैर्यममरानीकविद्रावणकरं महत् ।क्व किरातमहीपालक्षुद्रकिङ्कररूपता ॥४॥क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता ।क्व मिथ्यावासनावेशादहङ्कारकुकल्पना ॥५॥शाखाप्रतानगहना संसारविषमञ्जरी ।अहङ्काराङ्कुरा देव समुदेतीयमातता ॥६॥अहङ्कारमतो राम मार्जयान्तः प्रयत्नतः ।अहं न किंचिदेवेति भावयित्वा सुखी भव ॥७॥अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् ।रसायनमयं शीतमदृश्यत्वमुपागतम् ॥८॥अहङ्कारपिशाचार्ता दामव्यालकटास्त्रयः ।गताः सत्तामसन्तोऽपि मायामाहात्म्यदानवाः ॥९॥काश्मीरेषु महारण्यसरसीवनपल्वले ।अद्य मत्स्याः स्थिता राम शैवाललवलालसाः ॥१०॥श्रीराम उवाच ।नासतो विद्यते भावो नाभावो विद्यते सतः ।ते ह्यसन्तः कथं सत्तां संपन्ना इति मे वद ॥११॥श्रीवसिष्ठ उवाच ।एवमेतन्महाबाहो नासत्संभवति क्वचित् ।कदाचित्किंचिदप्येव बृहत्संपद्यते तनु ॥१२॥किमसत्संस्थितं ब्रूहि किं तत्सद्वाथ संस्थितम् ।सम्यङ्निदर्शनेनैव करिष्ये तव बोधनम् ॥१३॥श्रीराम उवाच ।सन्त एव स्थिताः सन्तो ब्रह्मन्वयमिमे किल ।दामादयस्त्वसन्तोऽपि वक्षि सन्तः स्थिता इति ॥१४॥श्रीवसिष्ठ उवाच ।यथा दामादयो राम स्थिता मायामया इति ।असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत् ॥१५॥तथैवेमे वयमपि ससुरासुरदानवाः ।असत्या एव वल्गामो याम आयाम एव च ॥१६॥अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च ।अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥१७॥मृतो बन्धुर्यथा स्वप्नेऽप्यनुभूतोऽप्यसन्मयः ।मृतोऽयमिति चेज्ज्ञप्तिर्भवेदेवमिदं जगत् ॥१८॥एषातिमूढविषय उक्तिरेव न राजते ।अभ्यासेन विनोदेति नानुभूतेरपह्नवः ॥१९॥निश्चयोऽन्तःप्ररूढो यः संपन्नोऽभ्यसनं विना ।नाशमायाति लोकेऽस्मिन्न कदाचन कस्यचित् ॥२०॥इदं जगदसद्ब्रह्म सत्यमित्येव वक्ति यः ।तमुन्मत्तमिवोन्मत्तो विमूढोऽपि हसत्यलम् ॥२१॥अक्षीबक्षीवयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।अन्धप्रकाशयोर्बोधे स्याच्छायातपयोरिव ॥२२॥यत्नेनाप्यनुभूतोऽर्थः सत्ये कर्तुमपह्नवम् ।अज्ञोऽन्तश्च न शक्रोति शवमाक्रमणं यथा ॥२३॥ब्रह्म सर्वं जगदिति वक्तुं नाज्ञस्य युज्यते ।तपोविद्याननुभवे स तदेवानुभूतवान् ॥२४॥अबुद्धविषये ह्येषा राम वाक्प्रविराजते ।बुद्धस्यास्मीति रूपेण किल नास्त्येव किंचन ॥२५॥ब्रह्मेवेदं परं शान्तमित्येवानुभवन्सुधीः ।अपह्नवः स्वानुभूतेः कर्तुं तस्य क्व युज्यते। ॥२६॥परस्माद्व्यतिरेकेण नाहमात्मनि किंचन ।हेमनीवोर्मिकादित्वं न मय्यस्ति विशिष्टता ॥२७॥भूतता व्यतिरेकेण मूढे नात्मनि किंचन ।ऊर्म्यादिबुद्धौ हेमेव ज्ञे नास्ति परमार्थता ॥२८॥मिथ्याहंतामयो मूढः सत्यैकात्ममयः सुधीः ।युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ॥२९॥यो यन्मयस्तस्य तस्मिन्युज्यतेऽपह्नवः कथम् ।पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तमेव हि ॥३०॥तस्मान्नेमे वयं सत्या नच दामादयः क्वचित् ।असत्यास्ते वयं चेमे नास्ति नः खलु संभवः ॥३१॥सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम् ।सत्यं सर्वगतं शान्तमस्त्यनस्तमयोदयम् ॥३२॥सर्वं शान्तं च निःशून्यं न किंचिदिव संस्थितम् ।तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग सृष्टयः ॥३३॥यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।केशोण्ड्रकादिवद्भान्ति तथेमास्तत्र दृष्टयः ॥३४॥स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ॥३५॥न सत्यमस्ति नासत्यमिति तस्माज्जगत्त्रये ।यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ॥३६॥यथा दामादयस्तद्वदेवमभ्युदिता वयम् ।सत्यासत्याः किमत्राङ्ग तान्प्रत्यपि विकल्पना ॥३७॥अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ॥३८॥यत्र दामादिरूपेण संवित्प्रकचिता स्वयम् ।तथा सा तत्र संपन्ना तथाकारानुभूतितः ॥३९॥अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।तथासौ तत्र संपन्ना तथाकारानुभूतितः ॥४०॥स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ॥४१॥यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥४२॥नच तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ॥४३॥निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।नानयोः शब्दयोरर्थभेदः पर्याययोरिव ॥४४॥परमार्थो जगदिति रूपं वेत्ति स्वयं स्वकम् ।यथा तैमिरिकं चक्षुः केशोण्ड्रकमिवेक्षते ॥४५॥न तत्केशोण्डृकं किंचित्सा हि दृष्टिस्तथा स्थिता ।नेदं दृश्यमिदं किंचिदित्थं चिद्व्योम संस्थितम् ॥४६॥सर्वत्र सर्वमिदमस्ति यथानुभूतंनो किंचन क्वचिदिहास्ति न चानुभूतम् ।शान्तं सदेकमिदमाततमित्थमास्तेसंत्यक्तशोकभयमेदमतस्त्वमास्स्व ॥४७॥शिलोदराकारघनं प्रशान्तंमहाचिते रूपमिदं स्वमच्छम् ।नैवास्ति नास्तीति दृशौ क्वचित्तुयच्चास्ति तत्साधु तदेव भाति ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे सदसन्निराकरणं नामैकत्रिंशः सर्गः ॥३१॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP