संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः १८ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः १८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सर्वसंसृतिखण्डेषु भूतबीजकलात्मनः ।तन्मात्रप्रतिभासस्य प्रतिभासेन भिन्नता ॥१॥प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रावृत्तिपूर्वकम् ।सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् ॥२॥प्रवृत्तिभाजो ये जीवास्ते तन्मात्रप्रदर्शिनः ।तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् ॥३॥तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।परस्परं संमिलन्ति घनतां यान्ति चाभितः ॥४॥केचित्पृथक्स्थितिगताः पृथगेव लयं गताः ।केचिन्मिथः संमिलिता जगद्गुञ्जा स्थिताक्षता ॥५॥जगद्रुञ्जासहस्राणि यत्रासंख्यान्यणावणौ ।अपरस्परलग्नानि काननं ब्रह्म नाम तत् ॥६॥मिथः संमिलनेनैता घनतां समुपागताः ।यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् ॥७॥वर्तमानं मनोराज्यं नैष्फल्यं समुपागता ।सा कृत्तिर्मनसो ज्ञेया तस्य जीवपरम्परा ॥८॥परस्परं संमिलतां सर्गाणां रूढभाविनाम् ।देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतिः ॥९॥देहत्वपरिरूढत्वाच्चिद्धेम्ना विस्मृतात्मना ।मिथ्यानुभूताऽविद्या तु शुद्धा कटकतामिता ॥१०॥यथा शुद्धः प्राणमरुत्परप्राणादिवेदनात् ।वेत्ति वेद्यं मनोराज्यं तथा सर्गान्तराश्रयम् ॥१५॥सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः ।जाग्रत्स्वप्नसुषुप्त्याख्यमत्र देहो न कारणम् ॥१२॥एवमात्मनि जीवत्वे सत्यवस्थात्रयात्मनि ।नचाम्भसीव वीचित्वमस्मिन्कचति देहता ॥१३॥चित्कलापदमासाद्य सुषुप्तान्तपदस्थितम् ।बुद्धो निवर्तेते जीवो मूढः सर्गे प्रवर्तते ॥१४॥द्वयोरेकस्वरूपैव स्वसौहार्दनिदर्शनात् ।अज्ञः सुषुप्तोऽसंबुद्धो जीवः कश्चित्स सर्गभाक् ॥१५॥सर्वगत्वाच्चितः कश्चित्परसर्गेण नीयते ।सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि ॥१६॥तेष्वप्यन्तस्थसर्गौघाः कदलीदलपीठवत् ।सर्वसर्गान्तरादूरं पत्रपीवरवृत्तिमत् ॥१७॥स्वभावशीतलं ब्रह्म कदलीदलमण्डपः ।कदल्यामन्यता नास्ति यथा पत्रशतेष्वपि ॥१८॥ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि ।बीजमेव रसात्फुल्लं भूत्वा बीजं पुनर्भवेत् ॥१९॥तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म परं भवेत् ।रसकारणकं बीजं फलभावेन जृम्भते ॥२०॥ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ।रसस्य कारणं किं स्यादिति वक्तुं न युज्यते ॥२१॥ब्रह्मणः कारणं किं स्यादिति वक्तुं न युज्यते ।स्वभावो निर्विशेषत्वात्परो वक्तुं न युज्यते ॥२२॥नाकारणे कारणादि परे वस्त्वादिकारणे ।विचारणीयः सारो हि किमसारविचारणैः ॥२३॥बीजं जहद्बीजवपुः फलीभूतं विलोक्यते ।ब्रह्माजहन्निजवपुः फलं बीजे च संस्थितम् ॥२४॥बीजस्याकृतिमत्सर्वं तेनानाकृतिमत्पदम् ।न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे ॥२५॥स्वमेव जायतेऽस्वाभं न च तज्जायतेऽन्यदृक् ।अतो न जातं नाजातं विद्धि ब्रह्म नभो जगत् ॥२६॥दृश्यं पश्यन्स्वमात्मानं न द्रष्टा संप्रपश्यति ।प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥२७॥मृगतृष्णाजलभ्रान्तौ सत्यां कैव विदग्धता ।विदग्धतायां सत्यां तु कैवासौ मृगतृष्णिका ॥२८॥आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः ॥२९॥आकाशविशदो द्रष्टा सर्वाङ्गोऽपि न पश्यति ।तेषां निजमिवात्मानं दृशीभूतमिवाभ्रमः ॥३०॥आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते ।दृश्ये दृश्यतया दृष्टे त्वस्य लाभः सुदूरतः ॥३१॥तादृग्भावस्वरूपेण विना यत्र न दृश्यते ।तत्रापि दूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥३२॥दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ।द्रष्टैव संभवत्येको नतु दृश्यमिहास्ति हि ॥३३॥द्रष्टा सर्वात्मको दृश्ये स्थितश्चेत्कैव द्रष्टृता ।सर्वशक्तिमता राज्ञा यद्यत्संपद्यते यथा ॥३४॥तत्तथानुभवत्याशु स एवोदेति तत्तथा ।यथा मधुरसोल्लासः खण्डो भवति भासुरः ॥३५॥रसतामजहच्चैव फलपुष्पलतोन्नतः ।चिदुल्लासस्तथा जीवो भूयो भवति देहकः ॥३६॥चिन्मात्रतां तामजहदेव दर्शनदृक्मयम् ।अन्तःस्वानुभवश्चैव जगत्स्वप्नं प्रपश्यति ॥३७॥अहंतादिरसे भौमे खण्डकत्वमिवात्मनि ।नानाखण्डसहस्रौघैरद्वितीयैर्निजात्मनः ॥३८॥यथोदेति रसो भौमश्चित्तथोदेत्यसंभ्रमम् ।चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि ॥३९॥दृश्यशाखाशताड्यानामिह नान्तोऽवगम्यते ।खण्डः प्रत्येकमेवायं यथा रसचमत्कृतिम् ॥४०॥स्वादयत्येवमेषा चित्पृथक्पश्यति संस्थितिम् ।या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः ॥४१॥तां तां तथैति सा स्वात्मचिद्रूपभुवनस्थितिम् ।जीवसंसृतयः काश्चिन्प्रमिलन्ति परस्परम् ॥४२॥स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ।सूक्ष्मया परया दृष्ट्या त्वं पश्य ज्ञानचेतसा ॥४३॥जगज्वालसहस्राणि परमाण्वन्तरेष्वपि ।चित्ते नभसि पाषाणे ज्वालायामनिले जले ॥४४॥सन्ति संसारलक्षाणि तिले तैलमिवाखिले ।सिद्धिमेति यदा चेतस्तदा जीवो भवेच्चितिः ॥४५॥शुद्धा च सा सर्वगता तेन तन्मेलनं मिथः ।सर्वेषां पद्मजादीनां स्वसत्ताभ्रमरूपकः ॥४६॥जगद्दीर्घमहास्वप्नः सोऽयमन्तः समुत्थितः ।स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः ॥४७॥तेनोपलम्भः कुड्यादावसौ दृढतरः स्थितः ।यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् ॥४८॥तया स्वप्नेऽपि यदृष्टं तत्काले सत्यमेव तत् ।चिदणोरन्तरे सन्ति समस्तानुभवाणवः ॥४९॥ [ यथा बीजान्तरे पत्रलतापुष्पफलाणवः ।परमाणुजगत्यन्तर्मन्ये चित्परमाणवः ।लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज ॥५०॥देशकालक्रियाद्रव्यैः स्वैरेवाणुभिरेव चित् ।अणूननुभवत्यन्तरितराणि नसंभवात् ॥५१॥स्वयं सर्गस्य कचितः स्वप्ने चिदणुखण्डकः ।ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥५२॥कचितं किंचिदेवेह वस्तुतस्तु न किंचन ।स्वयं सत्यं स्वादयन्ते द्वैतं चित्परमाणवः ॥५३॥स्वयं प्रकचति स्फारदेहश्चिदणुखण्डकः ।नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् ॥५४॥संपश्यतितरां कश्चिद्वहीरूपेण चिद्धटः ।सर्वगत्वादनाशित्वादृश्यबीजस्य वै चितेः ॥५५॥अन्तरेवाखिलं कश्चित्पश्यत्यविमलं जगत् ।तत्रातिकालकलनादुन्मज्जति निमज्जति ॥५६॥स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन्पुनःपुनः ।मिथ्या वटेषु लुठति शिलेव शिखरच्युता ॥५७॥केचित्संमिलिताः केचिदात्मन्येवाभ्रमे स्थिताः ।मग्नाः स्वसंवित्प्रसरे स्फुरन्तो देहखण्डकाः ॥५८॥स्वयमन्तः प्रपश्यन्ति ये जगज्जीवविभ्रमम् ।तैस्तैः कैश्चित्ततं दृश्यमसत्स्वप्नवदाश्रितम् ॥५९॥सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि ।सर्वगं विद्यते यत्र तत्र सर्वमुदेति हि ॥६०॥जीवान्तः प्रतिभासस्य सर्वस्य पुनरन्तरे ।जीवखण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च ॥६१॥जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः ।सर्वत्र रम्भादलवज्जीवो जीवान्तरेव हि ॥६२॥दृश्यबुद्धिपरावृत्तौ सममेतदनन्तरम् ।हेम्नीव कटकादित्वं परिज्ञातं विनश्यति ॥६३॥विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् ।तस्यान्तर्न विमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ॥६४॥विचारः सफलस्तस्य विज्ञेयो यस्य सन्मतेः ।दिनानुदिनमायाति तानवं भोगगृध्रता ॥६५॥यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् ।तथेन्द्रियजयेऽभ्यस्ते विवेकः फलितो भवेत् ॥६६॥विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः ।यस्य तेनापरित्यक्ता दुःखायैवाविवेकिता ॥६७॥यथा स्पर्शेन पवनः सत्तामायाति नो गिरा ।तथेच्छातानवेनैव विवेकोऽस्य विबुध्यते ॥६८॥चित्रामृतं नामृतमेव विद्धिचित्रानलं नानलमेव विद्धि ।चित्राङ्गना नूनमनङ्गनेतिवाचा विवेकस्त्वविवेक एव ॥६९॥पूर्वं विवेकेन तनुत्वमेतिरागोऽथ वैरं च समूलमेव ।पश्चात्परिक्षीयत एव यत्नःस पावनो यत्र विवेकितास्ति ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे जीवनखण्डकावतारो नामाष्टादशः सर्गः ॥१८॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP