संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४५ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जगत्संपन्नमेवेदं संपन्नं किंचिदेव न ।शून्यमेव च भामात्रं मनोविलसितं स्थितम् ॥१॥न देशकालावेतेन ब्रह्माण्डेनावृतौ स्थितौ ।मनागपि महारूपवताप्याकाशरूपिणा ॥२॥एतत्संकल्पमात्रात्म स्वप्नदृष्टपुरोपमम् ।यत्रैव तत्र तच्छून्यं केवलं व्योम संस्थितम् ॥३॥अभित्तिरागरचनमपि दृष्टमसन्मयम् ।अकृतं कृतमेवैतद्व्योम्नि चित्रं विचित्रकम् ॥४॥मनसा कल्पितं सर्वं देहादिभुवनत्रयम् ।संस्मृतौ कारणं चैतच्चक्षुरालोकने यथा ॥५॥आभासमात्रं हि जगद्धटावटपटभ्रमैः ।आवर्तते न सद्रूपात्पृथक्कुड्यादयः स्थिताः ॥६॥मनसेदं शरीरं हि वासनार्थं प्रकल्पितम् ।कृमिकोशप्रकारेण स्वात्मकोश इव स्वयम् ॥७॥न तदस्ति च यन्नाम चेतःसंकल्पमम्बरम् ।न करोति न चाप्नोतिदुर्गमप्यतिदुष्करम् ॥८॥सर्वशक्तिधरे देवे का नाम ननु शक्तयः ।न संभवन्त्याश्रियन्ते याभिरन्तर्मनोगुहाः ॥९॥सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि ।महाबाहो संभवतः सर्वशक्तौ विभौ सति ॥१०॥पश्य भावनया प्राप्तं मनसैवात्मजं वपुः ।तस्मात्तत्कलनां राम सर्वशक्तियुतां विदुः ॥११॥स्वसंकल्पकृताः सर्वे देवासुरनरादयः ।स्वसंकल्पोपशमने शाम्यन्त्यस्नेहदीपवत् ॥१२॥आकाशसदृशं सर्वं कलनामात्रजृम्भितम्जगत्पश्य महाबुद्धे सुदीर्घं स्वप्नमुत्थितम् ॥१३॥न जायते न म्रियते इह किंचित्कदाचन ।परमार्थेन सुमते मिथ्या सर्वं तु विद्यते ॥१४॥न वृद्धिमेति नो ह्रासं यन्न किंचित्कदाचन ।किं वा तनु भवेत्तत्र कस्य का नाम खण्डना ॥१५॥भूमभूतं स्वकायोत्थमपश्यन्निपुणं दृशा ।राघवाऽमहता स्वान्तः किमज्ञ इव मुह्यसि ॥१६॥मृगतृष्णा यथा तापान्मनसो निश्चयात्तथा ।असन्त इव दृश्यन्ते सर्वे ब्रह्मादयोऽप्यमी ॥१७॥द्विचन्द्रविभ्रमप्रख्या मनोरथवदुत्थिताः ।मिथ्याज्ञानघनाः सर्वे जगत्याकारराशयः ॥१८॥यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस्तथा ।असत्यैवोत्थिता नित्यमाकाराणां परम्परा ॥१९॥इन्द्रजालमिदं विद्धि मायारचितपञ्जरम् ।मनोमनननिर्माणं न सन्नासदिव स्थितम् ॥२०॥ब्रह्मैवेदं जगत्सर्वमन्यतायास्ततः कुतः ।प्रसङ्गः कीदृशः कोऽसौ क्व वा सापरितिष्ठति ॥२१॥अयं गिरिरयं स्थाणुरित्याडम्बरविभ्रमः ।मनसो भावनादार्ढ्यादसन्सन्निव लक्ष्यते ॥२२॥प्रपञ्चपतनारम्भं प्रमत्तस्य इदं जगत् ।सकामतृष्णामननं त्यक्त्वान्यद्राम भावय ॥२३॥यथा स्वप्नो महारम्भो भ्रान्तिरेव न वस्तुतः ।दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपपादितम् ॥२४॥दृश्यमानमहाभोगं गृह्यमाणमवस्तुकम् ।कोशमाशाभुजङ्गानां संसाराडम्बरं त्यज ॥२५॥असदेतदिति ज्ञात्वा माऽत्र भावं निवेशय ।अनुधावति न प्राज्ञो विज्ञाय मृगतृष्णिकाम् ॥२६॥स्वसंकल्पात्स्वरूपाढ्यां मनोरथमयीं श्रियम् ।योऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम् ॥२७॥वस्तुन्यसति लोकोऽयं यातु काममवस्तुनि ।यस्तु वस्तु परित्यज्य यात्यवस्तु स नश्यति ॥२८॥मनोव्यामोह एवेदं रज्ज्वामहिभयं यथा ।भावनामात्रवैचित्र्याच्चिरमावर्तते जगत् ॥२९॥असदभ्युदितैर्भावैर्जलान्तश्चन्द्रवच्चलैः ।वञ्च्यते बाल एवेह न तत्त्वज्ञो भवादृशः ॥३०॥य इमं गुणसंघातं भावयन्सुखमीहते ।प्रमार्ष्टि स जडो जाड्यं वह्निभावनया स्वया ॥३१॥असदेवेदमाभोगि दृश्यते जलपञ्जरम् ।मनोमनननिर्माणहृदये नगरं यथा ॥३२॥इदं चित्तेच्छयोदेति लीयते तदनिच्छया ॥मिथ्यैवं दृश्यते स्फीतं गन्धर्वनगरं यथा ॥३३॥राम नष्टे जगत्यस्मिन्न किंचिदपि नश्यति ।युक्तेऽपि च जगत्यस्मिन्न किंचिदपि युज्यते ॥३४॥मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने ।वृद्धिं चोपगते ब्रूहि किं वृद्धं कस्य किं क्षतम् ॥३५॥ ।क्रीडार्थेन यथोदेति बालानां हृदि वर्तनम् ।मनसा तद्वदेवेदमुदेत्यविरतं जगत् ॥३६॥न किंचित्कस्यचिन्नष्टमिन्द्रजालजले यथा ।भ्रष्टे नष्टे तथैवास्मिन्संसारे वितथोत्थिते ॥३७॥यदसत्तदसत्स्याच्चेन्न किं कस्य किल क्षतम् ।ततो हर्षविषादानां संसारे नाम नास्पदम् ॥३८॥असदेव यदत्यन्तं तस्मात्किं नाम नश्यति ।नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते ॥३९॥सदेव वा यदत्यन्तं तस्य किं नाम नश्यति ।ब्रह्मैवेदं जगत्सर्वं सुखदुःखे किमुत्थिते ॥४०॥असद्वापि यदत्यन्तं वृद्धिः स्यात्तस्य कीदृशी ।वृद्धेरभावे हर्षस्य कः प्रसङ्गो महामते ॥४१॥सर्वत्रासत्यभूतेऽस्मिन्प्रपञ्चैकान्तकारिणि ।संसारे किमुपादेयं प्राज्ञो यदभिवाञ्छतु ॥४२॥सर्वत्र सत्यभूतेऽस्मिन्ब्रह्मतत्त्वमयेऽपि च ।किं स्यात्र्त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत् ॥४३॥असत्सद्वा जगद्यस्य तेनासौ सुखदुःखयोः ।अगम्य एव मूर्खस्तु तद्विनाशेन दुःखितः ॥४४॥आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।योऽभिवाञ्छत्यसद्राम तस्यासत्तैव दृश्यते ॥४५॥आदावन्ते च यत्सत्यं वर्तमाने सदेव तत् ।यस्य सर्वं सदेव स्यात्तस्य सत्तैव दृश्यते ॥४६॥असत्यभूतं तोयान्तश्चन्द्रव्योमतलादिकम् ।बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः ॥४७॥बालो हि वितताकारैर्वस्तुरिक्तैः प्रयोजनैः ।संतोषमेत्यनन्ताय दुःखाय न सुखाय तु ॥४८॥तस्मान्मा त्वं भवो बालो राम राजीवलोचन ।अविनाशमिहालोक्य नित्यमाश्रय सुस्थिरम् ॥४९॥असदिदमखिलं मया समेतंत्विति विगणय्य विषादितास्तु मा ते ।सदिह हि सकलं मया समेतंत्विति च विलोक्य विषादितास्तु मा ते ॥५०॥श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥५१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः ॥४५॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP