संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
प्राणादिपञ्चमुद्राः

ललितार्चन चंद्रिका - प्राणादिपञ्चमुद्राः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


वामहस्तेन ग्रासमुद्रां च प्रदर्श्य पानीयम् उत्तरापोशनं करप्रक्षाळनं, गण्डूषाचमनं, पाद्यम्, आचमनं ताम्बूलं कर्पूरनीराञ्जनञ्च त्रितारीपूर्वकचतुर्थीनमोन्तनामोच्चारणपूर्वकं कल्पयित्वा
४ ऐं क्लीं सौः श्रीलळिताम्बिकायै महाशक्त्यै नमः इति गन्धाक्षतापुष्पाणि दत्वा, सति संभवे धूपदीपनैवेद्यताम्बूलादिकं दत्वा योनिमुद्रया प्रणम्य
४ गुरुमण्डल देवताभ्यो नमः इति पुष्पाञ्जलिं दत्वा
स्वशिरसि
स्वगुरुं, परमगुरुं परमेष्ठिगुरुं चं तत्तन्नामपूर्वकं पूजयित्वा पुनरपि मूलमन्त्रेण पुष्पाञ्जलिं दत्वा
श्रीलळिताम्बिकार्पणमस्तु इति सामान्यजलमुत्सृज्य साधार शंखमुत्थाप्य त्रिः परिभ्राम्य तेनोदकेनात्मानं सामयिकान् च संप्रोक्ष्य ततः खेचरीं बद्धवा क्षमस्व इति क्षमापणं विज्ञाप्य चैतन्य हृदि संयोज्य ४ सौः इत्यनुत्तरबीजविमर्शनपूर्वकं ध्यानमग्नः सन् ( ध्यानमग्नःसन् ) ( बीजस्य नादानुसन्धानं कार्य ) अनेन पूजनेन श्रीललिता पराभट्टारिका प्रीयतां न मम इति पूजां समाप्य
यथासुखी विहरेत् ।
इति लघूपूजा ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP