संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
मन्त्रपुष्पम्

ललितार्चन चंद्रिका - मन्त्रपुष्पम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


शिवे शिवसुशीलतामृततरङ्गगन्धील्लस -
न्नवावरणदेवते नवनवामृतस्यन्दिनि ।
गुरुक्रमपुरस्कृते गुणशरीरनित्योज्ज्वले
षडङ्गपरिवारिते कलित एष पुष्पाञ्जलिः ॥
इत्युक्त्वा पुष्पाञ्जलिं समर्पयेत् ।

कामकलाध्यानम् ।
अथ बिन्दुना मुखं बिन्दुद्वयेन स्तनौ
सपरार्धेन योनिरिति सानुस्वारे तुरीयस्वरे
कामकलात्मिकां ध्यात्वा ‘ सौः ’ इति
शक्तिबीजं श्रीदेव्या हृदयत्वेन भावयेत् ।

बलिदानविधिः ।
यथा - देव्या दक्षभागे सामान्योदकेन त्रिकोणवृत्तचतुरस्रात्मकं मण्डलं परिकल्प्य
४ ऐं व्यापकमण्डलाय नमः इति गन्धाक्षतैः अभ्यर्च्य अर्धभक्तपूरितोदकं सक्षीरादित्रयं पात्रं तत्र विन्यस्य
४ ओं ह्रीं सर्वविघ्नकृद्भ्यःसर्व भूतेभ्यः हुं स्वाहा इति मन्त्रं त्रिः पठित्वा दक्षकरार्पितं वामकरतत्त्वमुद्रास्पृष्टं सलिलं वल्युपरि दत्वा वामपार्ष्णिधातकरास्फोटौ कुर्वाणः समुदञ्चितवक्त्रो बाणमुद्रया बलिं भूतैः ग्रासितं विभाव्य प्रणमेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP