संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| अथ लधुपुजा ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - अथ लधुपुजा 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र अथ लधुपुजा Translation - भाषांतर अथ साधकः कृतमङ्गलस्नानः पूजागृहमागत्यओं सूर्यस्सोमी यमः कालःमहाभूतानि पञ्च च ।एते शुभाशुभस्येहकर्मणो नवसाक्षिणः ॥भो देवि प्राकृतं चित्तंपापाक्रान्तमभून्मम ।तन्निस्सारय चित्तान्मेपापं हुं फट् च ते नमः ॥इति प्रार्थ्य स्वात्मानमपगताशेषकल्मषं शुद्धं विभाव्य स्वशिरसि भृगीमुद्रां बद्धवाओं सहस्रदळपङ्कजेसकलशीतरश्मिप्रभंवराभयकराम्बुजंविमलगन्धपुष्पाम्बरं ।प्रसन्नवदनेक्षणंसकलदेवतारूपिणंस्मरेच्छिरसि हंसकंतदभिधानपूर्व गुरुम् ॥इति श्रीगुरुं ध्यात्वा त्रिवारं श्रीगुरुपादुकामन्त्रत्रं जप्त्वायन्त्रस्य दक्षवामयोः ऊर्ध्वे च क्रमेण४ भद्रकाळयै नमः४ भैरवाय नमः४ लंबोदराय नमःइति द्वारदेवताः अभ्यर्च्य४ सौः इति बालातृतीयबीजं द्वादशवारममिमन्त्र्य ( भूमिं स्पृष्ट्वा अभिमन्त्रणं कार्यम् ) ततः मूलेन प्रोक्ष्य४ आधारशक्तिकमलासनाय नमः इत्युपविश्यमूलमन्त्रेण आचमनं कुर्यात् । ततः मूलेन प्राणानायम्य४ श्रीमहागणपतये नमः४ श्रीगुरुभ्यो नमः४ श्रीलळिताम्बिकायै नमःइति प्रार्थ्यहस्त साक्षतं सश्वेतपुष्पं वा जलमादाय अद्य श्रीलळिताम्बिका प्रीत्यर्थ विद्यार्णवतन्त्रोक्तप्रकारेण लघु सपर्याक्रमं निर्वर्तयिष्ये इति संकल्प्य जलमुत्सृजेत् ।ततःतीक्ष्णद्रंष्ट्रं महाकायकल्पान्तदहनोपम ।भैरवाय नमस्तुभ्य -मनुज्ञां दातुमर्हसि ॥इति भैरवंश्रीगुरो दक्षिणामूर्तेभक्तानुग्रहतत्पर ।अनुज्ञां देहि भगवान् श्रीचक्रयजनाय मे ॥इति श्रीदक्षिणामूर्तिञ्च प्रार्थ्य घण्टामादाय ४ फट् इति संप्रोक्ष्य४ घण्टायै नमः, गन्धाक्षपुष्पं कल्पयामि नमः इत्यभ्यर्च्य जगध्वनिमन्त्रमातः स्वाहा इत्युच्चरन् घण्टां संवाद्य ततः पुष्पाण्यादाय४ रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमः इति भूमौ विकीर्य शिरस्यञ्जलिं बघ्द्वा ४ समस्तप्रकटप्तसिद्धयोगिनीभ्यो नमः इति नत्वा ततः गुरुपादुकामन्त्रेण श्रीगुरुं महागणपतिमन्त्रेण महागणपतिश्च नत्वा४ ऐः हः अस्त्राय फट् इति मन्त्रं मुहुरावर्तयन् अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः सर्वांगे च स्पृशेत् ।ततः दीपं प्रज्वाल्य ४ दीपदेवतायै नमः इति गन्धाक्षत पुष्पादिभिरभ्यर्च्य पुरतः श्रीचक्रं श्रीविद्यासंबंन्धि पुस्तकं शिवनाभिं साळग्रामं श्रीयन्त्रम् आदर्श वा संस्थाप्य मूलेन मूलखण्डत्रयेण च पुष्पाञलिं दत्वा भूतशुद्धिं कुर्यात् ।==भूतशुद्धिःश्वाससमीरं पिङ्गलया नाड्या अन्तराकृष्य त्रिः मूलश्रृङ्गाटकात् सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा इति मन्त्रेण मूलाधारस्थितं जीवात्मानं सुषुम्नावर्त्मना ब्रह्मरन्ध्रं नीत्वा परमशिवेनैकीभूतं भावयित्वा इडया वायुं रेचयेत् । एवमेवोत्तरत्र शोषणाद्विष्वपि प्रातिस्विके पूरकरेचने ।४ यं सङ्कोचशरीरं शोषय शोषय स्वाहेति निजशरीरं शोषितं विभाव्य४ रं सङ्कोचशरीरं दह दह पच पच स्वाहेति प्लुष्टं भस्मीकृतञ्च विभाव्य४ वं परमशिवामृतं वर्षय वर्षय स्वाहेति तद्भस्म सहस्रारेन्दुमण्डलविगलदमृतरसेन सिक्तं च विभाव्य उत्पादसोत्पादनयः४ लं शाम्भवशरीरमुत्पादयोत्पादय स्वाहा४ हंसः सोहमवतरावतर शिवपदात् जीवसुषुम्नापथेन प्रविश्य मूलश्रृङ्गाटकमुल्लससोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोsहं स्वाहेति परशिवेनैकीभूतं जीवं पुनः सुषुस्नावर्त्मना मूलाधारे स्थापितं विचिन्तयेत् । सङ्कोचशरीरं नाम पाञ्चभौतिकं परिच्छिन्नामिदमेवाङ्गम् ।==आत्मप्राणप्रतिष्ठाअथ अत्मप्राणप्रतिष्ठा अनुष्ठेया ।यथा दक्षकरतलं हृदि निधाय४ आं सोsहमिति त्रिः पठेत् ।प्रत्यूहोत्सारणम् ततः प्राग्वत् विंशतिधा षोडशधा दशधा त्रिधा वा प्राणानायम्य४ अपसर्पन्तु ते भूताः ये भूता भुवि संस्थिताः ।ये भूता विघ्नकर्तारःते नश्यन्तु शिवाज्ञया ॥इति मन्त्रं सकृदुच्चार्य युगपद्वामपार्ष्णिभूतलाधातत्रय करतलास्फोटत्रयक्रूरदृष्टयवलोकनपूर्वं ताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् ।ताळत्रयं नाम दक्षिणतर्जनीमध्यमाभ्यामधोमुखाभ्यां वामकरतले सशद्बमुपर्युपरि त्रिरभिघातः । N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP