संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
प्रदक्षिणाः

ललितार्चन चंद्रिका - प्रदक्षिणाः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


अजेशशशक्तिगणपभास्कराणां क्रमादिमाः ।
वेदार्थचन्द्रवहृयादिसंख्याः स्युः सर्वसिद्धये ॥
प्रदक्षिणनमस्कारानंतर जपप्रकरणोक्तविधिना जपं निर्वत्य स्तुवीत ।
ओं गणेशग्रहनक्षत्रयोगिनीं राशिरूपिणीं
देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् ॥
प्रणामामि महादेवीं मातृकां परमेश्वरीम् ।
कालहल्लोहलोल्लोलकलनाशमकारिणीम् ॥
यदक्षरैकमात्रेsपि संसिद्धे स्पर्धते नरः ।
रवितार्क्ष्येन्दुकन्दपेशङ्करानलविष्णुभिः ॥
यदक्षरशशिज्योन्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥
यदक्षर महासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥
यदेकादशमाधारं बीजं कोणत्र्योद्भवम् ।
ब्रह्माण्डदिकटाहान्तं जगदद्यापि दृश्यते ॥
अकचादिटतो न्नद्वपयशाक्षरवर्गिणीं ।
ज्येष्ठाङ्गबाहुहृत्पृष्ठकटिपादनिवासिनीम् ॥
तामीकराक्षरोद्धरां सारात्सारां परात्परां
प्रणामामि महादेवी परमानन्दरूपिणीम् ॥
अद्यापि यस्या जानन्ति न मनागपि देवताः
केयं कस्मात् क्व केनेति सरूपारूपभावनाम्
वन्देतामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लासप्रोल्लसन्तीं परां शिवाम् ।
वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्धयष्तकेश्वरीम् ॥
कामपूर्णजकारारव्यश्रीपीठान्तर्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥
इति द्वादशाभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् ।
देव्यास्त्वखण्डरूपायाः स्तवनं तव तथ्यतः ।
भूमौ स्स्वलितपादानां मूमिरेवावलंबनम् ।
त्वयि जातापराधानां त्वमेव शरणं शिवे ॥
एवमादिभिरन्याभिश्च यथावकाशं स्तुतिभिः अखिललोकमातरं स्तुवीत ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP