संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| तत्त्वशोधनम् ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - तत्त्वशोधनम् 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र तत्त्वशोधनम् Translation - भाषांतर अथ सन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्रानि समर्प्य समाहूतैः शिष्यैः वृन्दात्मना अवस्थितैः सामयिकै साकं पाणी प्रक्षाळ्य, श्रीदेव्यै मूलेनोपचारमन्त्रेण च त्रिः पुष्पाञ्जलिं समर्प्य, ३ समस्तप्रकटगुप्नगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापरातिरहस्ययोगिनीश्रीपादुकाभ्यो नम इति समष्टिमन्त्रेण आवरणदेवतानां एकं पुष्पाञ्जलिं दत्वा, पूर्ववत् पात्रं पुनःपुनरादायाचमनोक्तैः मन्त्रैः तत्त्वानि शौधयेत् । यथा - ओं ऐं ह्रीं श्रीं कएईल ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥४ ह स क ह ल ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥४ स क ल ह्रीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥षोडश्युपासकस्य तुत्रयोदशबीजपुटितैः प्रत्येकखण्डैः तत्त्वंत्रयशोधनं सर्वेण मूलेन सर्वतत्त्वशोधनं च विशेषः ॥[ अन्न प्रथमापात्रस्वीकार एवोत्थनम् । यथासम्प्रदायं सर्व पात्रस्वीकारोsपि । स्त्रीणां तूत्थायैव । अत्र च बालोपास्तवेकं पात्रं सर्वतत्त्वशोधनम् । पञ्चदश्युपासनायां तु पात्रत्रयम् । श्रीषोडशाक्षर्युपास्तौ तु तञ्चतुष्टयम् । निवृत्ते पूर्णाभिषेके तप्पञ्चकं, यथाsविकारमैच्छिकानि वा । विश्वस्तायाः कुमार्याः सुवासिन्याशश्चैकं पात्रमिति विवेकः ॥किं च श्रीगुरोस्तच्छिक्तिसुतज्येष्ठकनिष्ठानां स्वज्येष्ठस्य सामयिकानां स्त्रीणां चोच्छिष्टं द्रव्याद्युपादेयम् । तेभ्यस्तु न देयम् । स्वकनिष्ठशिष्ययोस्तु प्रदेयम् वीराणां तूच्छिष्टं चर्वणमात्रमादेयम् ।उल्लासास्तुं - आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थssख्याः सप्त । तेष्वर्ध्यसंशोधनमारम्भः । तरुणयौवनप्रोढेषु समर्याविधिः । ततो देवताविसर्जनम् । अवशिष्टं अवस्थात्रयं सिद्धानां वीराणां न तु साधकानां इति तत्त्वम् । इति हविः प्रतिपत्तिः ॥ ] N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP