द्वितीयाः पाद: - सूत्र ३०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न भावोऽनुपलब्धे: ॥३०॥

न भावोऽनुपलब्धे: ।
यद्यप्युक्तं विनाप्यर्थेन ज्ञानवैचित्र्यं वासनानैचित्र्यादेवावकल्पत इति तत्प्रति वक्तव्यम् ।
अत्रोच्यते ।
न भावो वासनानामुपपद्यते त्वत्पक्षेऽनुपलब्धेर्बाहयानामर्थानाम् ।
अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति ।
अनुपलभ्यमानेषु त्वर्थेष्उ किंनिमित्ता विचित्रा वासना भवेयु: ।
अनादित्वेऽप्यन्धपरम्परान्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यान्नाभिप्रायसिद्धि: ।
यावप्यन्वन्वयव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ ।
विनार्थोपलब्ध्या वासनानुत्पत्ते: ।
अपि च विनापि वासनाभिरर्थोपलब्ध्युपगमाद्विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमादर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयत: ।
अपि च वासना नाम संस्कारविशेषा: ।
संस्काराश्च नाश्रयमन्तरेणावकल्पन्ते ।
एवं लोके दृष्टत्वात् ।
न च तव वासनाश्रय: कश्चिदस्ति ।
प्रमाणतोऽनुपलब्धे: ॥३०॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP