द्वितीयाः पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अभ्युपगमेऽप्यर्थाभावात् ॥६॥

अभ्युपगमेऽप्यर्थाभावात् ।
स्वाभाविकी प्रधानप्रवृत्तिर्न भवतीति स्थापितम् ।
अथापि नाम भवत: श्रद्धामनुरुध्यमाना: स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषोऽनुषज्येतैव ।
कुत: । अर्थाभावात् ।
यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किंचिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किंचिन्नापेक्षत एवं प्रयोजनमपि किंचिन्नापेक्षिष्यतेत्यत: प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत ।
स यदि ब्रूयात्सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति ।
तथापि प्र्धानप्रवृत्ते: प्रयोजनं विवेक्तव्यं विवेक्तव्यं भोगो वा स्यादपवर्गो वोभयं वेति ।
भोगश्चेत्कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ।
अनिर्मोक्षप्रसङ्गश्च ।
अपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च । उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव ।
न चौत्सुक्यनिवृत्त्यर्था प्रवृत्ति: ।
न प्रधानस्याचेतनस्यौत्सुक्यं संभवति ।
न च पुरुशस्य निर्मलस्य निष्कलस्यौत्सुक्यम् ।
दृकशक्तिसर्गसक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव ।
तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् ॥६॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP