द्वितीयाः पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अपरिग्रहाच्चात्यन्तमपेक्षा ॥१७॥

अपरिग्रहाच्चात्यन्तपेक्षा ।
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्न्मन्वादिभि: सत्कार्यत्वाद्यंशोअजीवनाभिप्रायेणोपनिबद्ध: ।
अय़ं तु परमाणुकारणवादो न कैश्चिदपि शिष्टै: केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभि: ।
अपि च वैशेषिकास्तन्त्रार्थभूतान्ष‍ट पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति यथा मनुष्योऽश्व: श इति ।
तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति । तन्नोपपद्यते ।
कथं यथा हि लोके शशकुशपलाशाप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवत्येवं द्रव्यादीनामप्यत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति ।
अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावेऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशाब्दप्रत्यय़भाग्भवति ।
यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् ।
तथा सति सांख्यसिद्धान्तप्रसङ्ग: स्वसिद्धान्तविरोधश्चापद्येयाताम् ।
नन्वग्निधूमौयोरन्यत्वं निश्चीयते ।
इह तु शुक्ल: कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति ।
तस्माद्द्रव्यात्मकता गुणस्य ।
एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता ।
गुणादीनां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वाऽपृथक्स्वभवत्वं वा ।
सर्वथापि नोपपद्यते ।
अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत ।
कथम् । तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते न पटदेश: ।
पटस्य तु गुणा: शुक्लादय: पटदेशा अभ्युपगम्यन्ते न तन्तुदेशा: ।
तथा चाहु" - द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् - इति ।
तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्च गुणा: शुक्लादय: कार्यद्रव्ये पटे शुक्लदिगुणान्तरमारभन्ते - इति हि तेऽभ्युपगच्छन्ति ।
सोऽभुपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत ।
अथापृथक्कालत्वमयुतसिद्धत्वमुच्येत सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत ।
तथाऽपृथस्वभावत्वे त्वयुतसिद्धत्वे न द्रव्यगुनयोरात्मभेद: संभवति । तस्य तादात्म्येनैव प्रतीयमानत्वात् ।
युतसिद्धयो: संबन्ध: संयोगोऽयुतसिद्धयोऽस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषाम ।
प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्त्वानुपपत्ते: ।
अथान्यतरापेक्ष एवायमभ्युपगम:  स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्ध: समवाय इति ।
एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते ।
द्वयायत्तत्वात्संबन्धस्य ।
सिद्धं भूत्वा संबध्यत इति चेत् ।
प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्धयभावात्कार्यकारणयो: संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरै: संबन्ध: संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्ध: संयोग एव स्यान्न समवाय: ।
नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धिव्यतिरेकणोस्तित्वे किंचित्प्रमाणमस्ति ।
संभन्धिसब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् । न ।
एकत्वेऽपि स्वरूपबाहयरूपापेक्षयाऽनेकशब्दप्रत्ययदर्शनात् ।
यथैकोऽपि सन्देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकसब्दप्रत्ययभाग्भवति मनुप्यो ब्राम्हाण: श्रोत्रियो वदान्यो बालो युवा स्थविर: पिता पुत्र: पौत्रो भ्राता जामातेति यथा चैकापि सती रेखा स्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति तथा संबन्धिनोरेव संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेनेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य ।
नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययो: सन्ततभावप्रसङ्ग: ।
स्वरूपबाहयरूपापेक्षयेत्युक्तोत्तरत्वात् ।
तथाण्वात्ममनसामप्रदेशत्वान्न संयोग: संभवति ।
प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् ।
कल्पिता: प्रदेशा अण्वात्ममनसां भविप्यन्तीति चेत् । न ।
अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङगात् ।
इअयानेवाविद्यमानो विरुदवोऽविरुदवो वाऽथं: कल्पनीयो नातोऽधिक इति नियमहेत्वभावात् ।
कल्पनायाश्च स्वायत्तत्वात्प्रभृतत्वसंभवाच्च ।
न च वैशेषिकै: कल्पितेभ्य: षडभ्य: पदार्थेभ्योऽन्येऽधिका: शतं सहस्रं वाऽर्था न कल्पयितव्या इति निवारको हेतुरस्ति ।
तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत ।
कश्चित्कृपालु: प्राणिनां दु:खबहुल: संसार एव मा भूदिति कल्पयेत ।
अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् ।
कस्तयोर्निवारक: स्यात् । किंचान्यत् ।
द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य व्द्यणुकस्याकाशेनेव संश्लेषानुपपत्ति: ।
न हयाकाशास्य पृथिव्यादीनां व जतुकाष्ठावत्संश्लेषोऽस्ति ।
कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्य: समवाय इति चेत् । न ।
इतरेतराश्रयत्वात् । कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धि: कुण्डबदरवदितीतरेतराश्रयता स्यात ।
न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदातवादिभिरभ्युपगम्यते ।
कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् । किंचान्यत् ।
परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिश: षडष्टौ दश वा तावद्भिरवयवै: सावयवास्ते स्यु: सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत । यांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि त एव परमाणव इति चेत् । न ।
स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्ते: । यथा पृथिवी व्द्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूताऽपि विनश्यति तत: सूक्ष्मं च पृथिव्येकजातीयकं विनश्यति ततो व्द्यणुकं तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयु: ।
विनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत् । नायं दोष: ।
यतो घृतकाठिन्यविलयन वदपि विनाशोपपत्तिमवोचाम ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठिन्यविनाशो भवत्येवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति ।
तथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति ।
क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् ।
तदेवमसारतरर्कसंदृब्धत्वादीश्चरकारणश्रुतिविरुद्धत्वाच्छुतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षाऽस्मिन्परमाणुकारणवादे कार्या श्रेयोऽर्थिभिरिति वाक्यशेष: ॥१७॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP