द्वितीयाः पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पुरुषाश्मवदिति चेत्तथापि ॥७॥

पुरुषाश्मवदिति चेत्तथापि ।
स्यादेतत् ।
यथा कश्चित्पुरुषो दृक्शक्तिसंपन्न: प्रवृत्तिशक्तिविहीन: पङ्गुरपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति ।
यथा वाऽयस्कान्तोऽश्मा स्वएमप्र्वर्तमानोऽप्यय: प्रवर्तयति ।
एवं पुरुष: प्रधानं प्रवर्तयिष्यतीति दृष्टान्तप्रत्ययेन पुन: प्रत्यवस्थानम् ।
अत्रोच्यते । तथापि नैव दोषान्निर्मोक्षोऽस्ति ।
अभ्युपेतहानं तावद्दोष आपतति प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात् ।
पुरुषस्य च प्रवर्तकत्वानभ्युपगमात ।
कथं चोदासीन: पुरुष: प्रधानं प्रवर्तयेत् ।
पङ्गुरपि हयन्धं वागादिभि: पुरुषं प्रवर्तयति ।
नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति निष्कियत्वान्निर्गुणत्वाच्च ।
नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् ।
सनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् ।
अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापार: संनिधि परिमार्जनाद्यपेक्षा चास्यास्तीत्यनुपन्यास: पुरुषाश्मवदिति ।
तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयो: संबन्द्धुरभावात्संबन्धानुपपत्ति: ।
योग्यतानिमित्ते च संबन्धे योग्यतानुच्चेदादनिर्मोक्षप्रसङ्ग ।
पूर्ववच्चेहाप्यथाभावो विकल्पयितव्य: ।
परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयं च प्रवर्तंकत्वमित्यस्त्यतिशय: ॥७॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP