द्वितीयाः पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पयोऽम्बुवच्चेत्तत्रापि ॥३॥

पयोऽम्बवच्चेत्तत्रापि ।
स्यादेतत् ।
यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्धयथ प्रवर्तते यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति ।
नैतत्साधूच्यते । यतस्तत्रापि पयोऽम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे ।
उअभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात् ।
शास्त्रं च योऽप्सु तिष्ठन्योऽपोऽन्तरो यमयति - एतस्य वा अक्षरस्य प्रशासन गार्गि प्राच्योऽन्या नद्य: स्यन्दन्त इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति ।
तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोऽम्बुवदित्यनुपन्यास: ।
चेतनायाश्च धेन्वा स्नेहेच्छया पयस: प्रवर्तकत्वोपपत्ते: ।
वत्सचोषणेन च पयस आकृप्यमाणत्वात् ।
न चाम्बुनोऽप्यत्यन्तमनपेक्षा निन्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य ।
चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् ।
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीत्यत्र तु बाहयनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्टया निदर्शितम् ।
शास्त्रदृष्टया तु पुन: सर्वत्रैवेस्वरापेक्षत्वमापद्यमानं न पराणुद्यते ॥३॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP