द्वितीयाः पाद: - सूत्र २७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उदासीनानामपि चैवं सिद्धि: ॥२७॥

उदासीनानामपि चैवं सिद्धि: ।
चाभावाद्भावोत्पत्तिरभ्युपगम्येतैवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धि: स्यात् ।
अभावस्य सुलभत्वात् ।
कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्ति: स्यात् ।
कुलालस्य च मत्संस्कियायामप्रयतमानस्याप्यमत्रोत्पत्ति: ।
तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभ: ।
स्वर्गापवर्गयोश्व न कश्चित्कथंचित्समीहेत ।
न चैतद्युज्यतेऽभ्युपगम्यते वा केनचित् ।
तस्मादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगम: ॥२७॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP