द्वितीयाः पाद: - सूत्र ४४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विज्ञानादिभावे वा तदप्रतिषेध: ॥४४॥

विज्ञानादिभावे वा तदप्रतिषेध: ।
अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यधर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोष: प्राप्नोतीति ।
अत्रोच्यते ।
एवमपि तदप्रतिषेध उत्पत्यसंभवस्याप्रतिषेध: प्राप्नोत्येवायमुत्पत्त्यसंभवो दोष: प्रकारान्तरेणेत्यभिप्राय: । कथम् ।
यदि तावदयमभिप्राय: परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति ततोऽनेकेश्वरकल्पनानर्थक्यम् ।
एकेनैवेश्वरेणेश्वरकार्यसिद्धे: । सिद्धान्तहानिश्च ।
भगवानेवैको वासुदेव: परमार्थतत्त्वमित्यभ्युपगमात् ।
अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यऊहास्तुल्यधर्माण इति तथापि तदवस्थ एवोत्पत्त्यसंभव: ।
न हि वासुदेवात्संकर्षणस्योत्पत्ति: संभवति संकर्षणाच्च प्रद्युन्नस्य प्रद्युन्नाच्चानिरुद्धस्य ।
अतिशयाभावात् ।
भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्धटयो: ।
न हयसत्यतिशये कार्यं कारणमित्यवकल्पते ।
न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृत: कश्चिद्भेदोऽभ्युपगम्यते वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते ।
न चैते भगवद्वय़ूहाश्चतु: संख्यायामेवावतिष्ठेरन्ब्रम्हाअदिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्वयूहत्वावगमा‍त् ॥४४॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP