TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयाः पाद: - सूत्र २८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २८
नाभाव उपलब्धे: ॥२८॥

नाभाव उपलब्धे: ।
एवं बाम्हार्थवादमाश्रित्यसमुदायाप्राप्त्यादिषु दूषणेपूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते ।
केषांचित्किल विनेयानां बाम्हावस्तुन्यभिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता नासौ सुगताभिप्राय: ।
तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेत: ।
तस्मिंश्च विज्ञानवादे बुद्धयारूढेन रूपेणान्त:स्थ एव प्रमाणप्रमेयफलव्यवहार: सर्व उपपद्यते ।
सत्यपि बाम्होऽर्थे बुद्धयारोहमन्तरेण प्रमाणादिव्यवहारानवतारात् ।
कथं पुनरवगम्यतेऽन्त:स्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाम्होऽर्थोऽस्तीति ।
तदसंभवादित्याह ।
स हि बाम्होऽर्थोभ्युपगम्यमान: परमाणवो वा स्युस्तत्समूहा वा स्तम्भादय: स्यु: ।
तत्र न तावत्परमाणव: स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति ।
परमाण्वाभासज्ञानातुपपत्ते: ।
नापि तत्समूहा: स्तम्भादय: ।
तेषां परमणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् ।
एवं जात्यादीनपि प्रत्याचक्षीत ।
अपि चानुभवमात्रेण साधारणात्मनो ज्ञानस्य जयमानस्य योऽयं प्रतिविषयं पक्षपात: स्तम्भज्ञानं कुडयज्ञानं घटज्ञानं पटज्ञानमिति नासौ ज्ञानगतविशेषमन्तरेण उपपद्यत इत्यवस्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् ।
अङ्गीकृते  च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाम्हार्थसद्भावकल्पना ।
अपि च सहोपलम्भनियमादभेदोविषयविज्ञानयोरापतति ।
न हयनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति न चैतत्स्वभावविवेके युक्तं प्रतिबन्धकारणाभावात् ।
तस्मादप्यर्थाभाव: । स्वप्नादिवच्चेदं द्रष्टव्यम् ।
यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाम्होनार्थेन ग्राहयग्राहकाकारा भवन्त्येवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते प्रत्ययत्वाविशेषात् ।
कथं पुनरसति बाम्हार्थे प्रत्ययवैचित्र्यमुपपद्यते ।
वासनावैश्चित्र्यादित्याह ।
अनादो हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते ।
अपि चान्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्योभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् ।
अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मयानभ्युपगम्यमानत्वात् ।
तस्मादप्यभावो बाम्हार्थस्येति ।
एवं प्राप्ते ब्रूम: । नाभाव उपलब्धेरिति ।
न खल्वभावो बाम्हास्यार्थस्याध्यवसातुं शक्यते ।
कस्मात् । उपलब्धे: । उपलभ्यते हि प्रति प्रत्ययं बाम्होऽर्थ: स्तम्भ: कुडयं घट: पट इति न चोपलभ्यमानस्यैवाभावो भवितुमर्हत ।
यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति तद्वदिन्द्रियसन्निकर्षेण स्वयमुपलभ्यमान एव बाम्हामर्थं नाहमुपलभे न च सोऽस्तीति ब्रुवन्कथमुपादेयवचन: स्यात् ।
ननु नाहमेवं ब्रवीमि न कञ्चिदर्थमुपलभ इति किंतूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि ।
बाढमेवं ब्रवीषि निरङकुसत्वात्ते तुण्डस्य न तु युक्त्युपेतं ब्रवीषि यत उपलब्धिव्यतिरेको‍ऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव ।
न हि कश्चिदुपलब्धिमेव स्तम्भ: कुडयं चेत्युपलभते ।
उपलब्धिविषयत्वेनैव तु स्तम्भकुडयादीन्सर्वे लौकिका उपलभन्ते ।
अतश्चैवमेव सर्वे लौकिका उपलभन्ते यत्प्रत्याचक्षाणा अपि बाम्हार्थमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत इति तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमाना: प्रत्याख्यातुकामाश्च बाह्यमर्थं बहिर्वदिति वत्कारं कुर्वन्ति ।
इतरथा हि कस्माद्वहिर्वदिति ब्रूयु: ।
न हि विष्णुमित्रो वन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत ।
तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं नतु बहिर्वदवभासत इति ।
ननु बाम्हास्यार्थस्यासंभवाद्बहिर्वदवभासत इत्याध्यवसितम् ।
नायं साधुरध्यवसायो यत: प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सभवासंभवाववधार्येते न पुन: सम्भवासम्भवपूर्वके प्रमाणप्रवृत्त्यप्रवृत्ती ।
यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति ।
यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति ।
इह तु यथास्वं सर्वैरेव प्रमाणैर्बाम्होऽर्थ उपलभमान: कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्तेतोपलब्धेरेव ।
न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति ।
असति विषये विषयसारूप्याद्विषयनाशो भवति ।
असति विषये विषयसारूप्यानुपपत्ते: ।
बहिरुपलब्धेश्च विषयस्य ।
अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुको नाभेदहेतुक इत्यभ्युपगन्तव्यम् ।
अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपतयोर्भेदो न विशेष्यस्य ज्ञानस्य यथा शुक्लो गौ: कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदो न गोत्वस्य ।
द्वाभ्यां च भेद एकस्य सिद्धो भवत्येकस्माच्च द्वयो: ।
तस्मादर्थज्ञानयोर्भेद: ।
तथा घटादर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् ।
अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदो न विशेषणस्य घटस्य यथा क्षीरगन्ध: क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदो न विशेषणस्य क्षीरस्य तद्वत् ।
अपि च द्वयोर्विज्ञानयो: पूर्वोत्तरकालयो: स्वसंवेदनैवोपक्षीणयोरितरेतरग्राहयग्राहकत्वानुपपत्ति: ।
ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगतास्ता हीयेरन् ।
किंचान्यद्विज्ञानं विज्ञानमित्यभ्युपगच्छता बाम्होऽर्थ: स्तम्भ: कुडयमित्येवंजातीयक: कस्मान्नाभ्युपगम्यत इति वक्तव्यम् । विज्ञानमनुभूयत इति चेदबाहयोऽप्यर्थो‍ऽनुभूयत एवेति युक्तमभ्युपगतुम् ।
अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाहयोऽप्यर्थ इति चेत् ।
अत्यन्तविरुद्धां स्वात्मनि क्रियामुपगच्छस्यग्निरात्मानं दहतीतिवदविरुद्धं तु लोकप्रसिद्धं स्वात्मव्यतिरिक्तेन विज्ञानेन बाहयोऽर्थोऽनुभूयत इति नेच्छस्यहो पाण्डित्यं महद्दर्शितम् ।
न चार्थव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते स्वात्मनि क्रियाविरोधादेव ।
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राहयत्वे तदप्यन्येन ग्राहयं तदप्यन्येनेत्यनवस्था प्राप्नोति ।
अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयत: समत्वादवभास्यावभासकभावानुपपत्ते: कल्पनानर्थक्यमिति ।
तदुभयमप्यसत् ।
विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणोग्रहणाकाङक्षानुत्पादादनवस्थाशङ्कानुपपत्ते: ।
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपब्ध्रुपलभ्यभावोपपत्ते: ।
स्वयं सिद्धस्यसाक्षिणोऽप्रत्याख्येयत्वात् ।
किंचान्यत् ।
प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवता प्रमाणागम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।
शिलाधनमघ्यस्थप्रदीपसहस्रप्रथनवत् ।
बाढमेवमनुभवरूपत्वात्तु विज्ञानस्येष्टो न: पक्षस्त्वयानुज्ञात इति चेत् । न ।
अन्यस्यावगन्तुश्चक्षुरादिसाधनस्य प्रदीपादिप्रथनदर्शनात् ।
अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदवगम्यते ।
साक्षिणोऽवगन्तुश्च स्वयंसिद्धतामुपक्षिपतास्वयं प्रथते विज्ञानमित्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् । न ।
विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् ।
अत: प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभि: प्रसाधितम् ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-07T05:32:42.3870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Jenny pole support

  • जेनी घिरा 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.