द्वितीयाः पाद: - सूत्र २२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥२२॥

प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ।
अपि च वैनाशिका: कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति ।
तदपि च त्रयं प्रतिसंख्याप्रतिसंख्यानिरोधावाकाशं चेत्याचक्षते ।
त्रयमपि चैतदवस्त्वभावमात्रं निरुपाख्यमिति मन्यन्ते ।
बुद्धिपूर्वक: किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते तद्विपरीतोऽप्रतिसंख्यानिरोध आवरणाभावमात्रमाकाशमिति ।
तेषामाकाशं परस्तात्प्रत्याख्यास्यति । निरोधद्वयमिदानीं प्रत्याचष्टे ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरप्राप्ति: ।
असंभव इत्यर्थ: । कस्मादविच्छेदात् ।
एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्यातां भावगोचरौ वा ।
न तावत्सन्तानगोचरौ संभवत: ।
सर्वेष्वपि सन्तानेपु सन्तानिनामविच्छिन्नेन हेतुफलभावेन सन्तानविच्छेदस्यासंभवात् ।
नापि भावगोचरौ संभवत: ।
न हि भावानां निरन्वयो निरुपाख्यो विनाश: संभवति सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्त्रय्यविच्छेददर्शनात् ।
अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् ।
तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्ति: ॥२२॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP