TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयाः पाद: - सूत्र २६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २६
नासतोऽद्दष्टत्वात् ॥२६॥

नासतोऽद्दष्टत्वात् ।
इतश्चानुपपन्नौ वैनाशिकसमयो यत: स्थिरमनुयायि कारण्मनभ्युपगच्छतामभावाद्भावोत्पत्तिरित्येतदापद्येते ।
दर्शयन्ति चात्राभावादभावोत्पत्तिं नानुपमृद्य प्रादुर्भावादिति ।
विनष्टाद्धि किल बीजादङकुर उत्पद्यते तथा विनष्टात्क्षीराद्दधि मृत्पिण्डाच्च घट: ।
कूटस्थाच्चेत्कारणात्कार्यमुस्पद्येताविशेपात्सर्वं सर्वत उत्पद्येत ।
तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्‌भावोत्पत्तिरिति मन्यन्ते ।
तत्रेदमुच्यते नासतोऽदृष्टत्वादिति ।
नाभावाद्‌भाव उत्पद्यते ।
यद्यभावादभाव उत्पद्येताभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थक: स्यात् ।
न हि बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च नि: स्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति येन बीजादेवाङ्कुरो जायते क्षीरादेव दधीत्येवंजातीयक: कारणविशेषाभ्युपगमोऽर्थवान्य्स्यात् ।
निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन् ।
न चैवं दृश्यते ।
यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येतोत्पलार्दानामिव नीलत्वादिस्ततो विशेषवत्वादेव ।
भावस्य भावत्वमुत्पलादिवत्प्रसज्येत ।
नाप्यभाव: कस्यचिदुत्पत्तिहेतु: स्यादभावत्वादेव शशविषाणादिवत् ।
अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् ।
नचैवं दृश्यते ।
सर्वस्य च वस्तुन: स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् ।
न च मृदन्विता: शरावादयो भावास्तन्त्वादिविकारा: केनचिदभ्युपगम्यन्ते ।
मृद्विकारानेव तु मृदन्वितान्भावाल्लोक: प्रत्येति ।
यतूक्तं स्वरूपोपमर्दमन्तरेण कस्यचित्कॄटस्थस्य वस्तुन: कारणत्वानुपपत्ते रभावाद्भावोत्पत्तिर्भवितुमर्हतीति तद्दुरुक्तम् ।
स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् ।
येष्वपि बीजादिषु स्वरूपोपपमर्दो लक्ष्यते तेष्वपि नासावुपमृद्यमाना पूर्वावस्थोत्तरावस्थाया: कारणमभ्युपगम्यतेऽनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङकुरादिकारणभावाभ्युपगमात् ।
तस्मादसद्भय: शशविषाणादिभ्य: सदुत्पत्त्यदर्शनात्सद्भयश्च सुवर्णदिभ्य: सदुत्पत्तिदर्शनादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपरगम: ।
अपि च चतुर्भ्यश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षण: समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्भावोत्पतिं कल्पयद्भिरभ्युपगतमपहनुवानैर्वैनाशिकै: सर्वो लोका आकुलीक्रियते ॥२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-07T05:31:14.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जिराइती,जिरायती,जिरायत,जिराईत

  • a  Relating to field or their crops-the tax, the survey &c. Fit for agricultureland. Raised on arable land. 
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.