TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयाः पाद: - सूत्र ११

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ११
महद्दीर्घवद्वा हरस्वपरिमण्डलाभ्याम् ॥११॥

प्रधानकारणवादो निराकृत: ।
परमाणुकारणवाद इदानीं निराकर्तव्य: ।
तत्रादौ तावद्योऽणुकारणवादिना ब्रम्हावादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते ।
तत्रायं वैशेषिकाणामभ्युपगम: ।
कारणद्रव्यसमवायिनो गुणा: कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यस्तन्तुभ्य: शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्यययादर्शनाच्च ।
तस्माच्चेतनस्य ब्रम्हाणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् ।
तददर्शनात्तु न चेतनं ब्रम्हा जगत्कारणं भवितुमर्हतीति ।
इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति ।
महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ॥
एषा तेषां प्रक्रिया ।
परमाणव: किल कंचित्कालमनारब्धकार्या यथायोगं रूपादिमन्त: पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति ।
ते च पश्चाददृष्टादिपुर: सरा: संयोगसचिवाश्च सन्तो व्द्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते ।
कारणगुणाश्च कार्ये गुणान्त्रम् ।
यदा द्वौ परमाणू व्द्यणुकारभेते तदा परमाणुगता रूपादिगुणविशेषा: शुक्लादयो व्द्यणुके शुक्लादीनपरनारभन्ते ।
परमाणुगुणविशेषस्तु पारिमाण्डल्यं न व्द्यणुके पारिमाण्डल्यमपरमारभते व्द्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् ।
अणुत्वहरस्वत्वे हि व्द्यणुकवर्तिनी परिमाणे वर्णयन्ति ।
यदापि द्वे व्द्यणुके चतुरणुकमारभेते तदापि समानं व्द्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।
अणुत्वहरस्वत्वे तु व्द्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् ।
यदापि बहव: परमावो बहूनि वा व्द्यणुकानि व्द्यणुकसहितो वा परमाणु: कार्यमारभते तदापि समानैषा योजना ।
तदेवं यथा परमाण्प: परिमण्डलासतोऽणु हरस्वं च द्वयणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलं यथा वा व्द्यणुकादणोर्हरस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो हरस्वमेवं चेतनादब्रम्हाणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे किं तव च्छिन्नम ।
अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं व्द्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनीत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत ।
न हयचेतना नाम चेतनाविरोधी कश्चिद्रुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् ।
तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति ।
मैवं मंस्था: । यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवंचैतन्यस्यापीत्यस्यंशस्य समानत्वात् ।
न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्ते: ।
आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् ।
न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यत: स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् ।
कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत् ।
तद्विपरीतमणु । एतेन दीर्घत्वहरस्वत्वे व्याख्याते । इति हि काणभुजानि सूत्राणि । नच सन्निधानविशेषात्कृतश्चित्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात् ।
तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं तथा चेतनाया अपीति द्रष्टव्यम् ।
संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचार: ।
द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेन्न । दृष्टान्तेन विलक्शणारम्भमात्रस्य विवक्षितत्वात् ।
न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति ।
सूत्रकारोऽपि भवतां द्रव्यस्यगुणमुदाजहार प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्कं न विद्यत इति ।
यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयो: समवपन्संयोगोऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेपु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् ।
प्रत्यक्षं हि शरीरम् । तस्मान्न पाञ्चभौतिकमिति ।
एतदुक्तं भवति । गुणश्च संयोगो द्रव्यं शरीरम् ।
दृश्यते त्विति चात्रापि विलक्षणोत्पत्ति: प्रपञ्चिता ।
नन्वेवं सति तेनैव तद्नतम् । नेति ब्रूम: ।
तत्साङख्यं प्रत्युक्तम् ।
एतत्तुवैसेषिकं प्रति ।
नन्वतिदेशोऽपि समानन्यायतया कृत एतेन शिष्टापरिग्रहा अपि व्याख्याता इति ।
सत्यमेतत् ।
तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्च: कृत: ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-06T23:02:24.7300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कबुतर

  • n  A pigeon or dove. 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site