द्वितीयाः पाद: - सूत्र १३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


समवायाभ्युपगमाच्च साम्यादनवस्थिते: ॥१३॥

समवायाभ्युपगमाच्च साम्यादनवस्थिते: ।
समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुकारणवादनिराकरणेन संबध्यते ।
द्वाभ्यां चाणुभ्यां व्द्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वो: समवैतीत्यभ्युपगम्यते भवता ।
न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम् ।
कुत: । साम्यादनवस्थिते: ।
यथैव हयणुभ्यामत्यन्तभिन्नं सदव्द्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यत एवं समवायो‍ऽपि समावायिभ्योऽत्यन्तभिन्न: सन्समवायलक्ष्यणेनान्येनैव संबन्धेन समवायिभि: संबध्येतात्यन्तभेदसाम्यात् ।
ततश्च तस्य तस्यान्योऽन्य: संबन्ध: कल्पयितव्यैत्यनवस्थैव प्रसज्येत ।
नन्विह - प्रत्ययग्राहय:  समवायो नित्यसंबद्ध एव समवायिभिर्गृहयते नासंबद्ध: संबन्धानतरापेक्षो वा ।
ततश्च न तस्यान्य: संबन्ध: कल्पयितव्यो येनानवस्था प्रसज्येतेति ।
नेत्युच्यते । संयोगोऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत ।
अथार्थान्तरत्वात्संयोग: संबन्धान्तरमपेक्षेत समवायोऽपितहर्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत ।
न च गुणत्वात्संयोग: संबन्धान्तरमपेक्षते न समवायोऽगुणत्वादिति  युज्यते वक्तुम ।
अपेक्षाकारणस्य तुल्यत्वात् । गुणपरिभाषायाश्चातन्त्रत्वात् ।
तस्मादर्थान्तरं समवायमभ्युपगच्छत: प्रसज्येतैवानवस्था प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां व्द्यणुकं नैवोत्पद्येत । तस्मादप्यनुपपन्न: परमाणुकारणवाद: ॥१३॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP