द्वितीयाः पाद: - सूत्र ५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्यत्राभावाच्च न तृणादिवत् ॥५॥

अन्यत्राभावाच्च न तृणादिवत् ।
स्यादेतत् ।
यथा तृणपल्लवोदकादि निमित्तान्तर निरपेक्षं स्वभावादेव क्षीराद्याकारणे परिणमत एवं प्रधानमपि महदाद्याकारणे परिणंस्यत इति ।
कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते निमित्तान्तरानुपलम्भात् ।
यदि हि किंचिन्निमित्तमुपलभेमहि ततो यथाकामं तेन तृणाद्युपादाय क्षीरं संपादयेमहि न तु संपादयामहे तस्मात्स्वाभाविकस्तृणादे: परिणाम: ।
तथा प्रधानस्यापि स्यादिति । अत्रोच्यते ।
भवेत्तृणादिवत्स्वाभाविक: प्रधानस्यापि परिणामो यदि तृणादेरपि स्वाभाविक: परिणामोऽभ्युपगम्येत ।
न त्वभ्युपगम्यते निमित्तान्तरोपलब्धे: ।
कथं निमित्तान्तरओपलब्धिरन्यत्राभावात् ।
धेन्वैव हयुपभुक्तं तृणादि क्षीरीभवति न प्रहीणमनडुहाद्युपयुक्तं वा ।
यदि हि निर्निमित्तमेतत्स्याद्धेनुशरीरसम्बन्धादन्यत्रापि तृणादि क्षीरीभवेत् ।
न च यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्मिमित्तं भवति ।
भवति हि किंचित्कार्यं मानुषसंपाद्यं किञ्चिद्दैवसं पाद्यम् ।
मनुष्या अपि च शक्नुवन्त्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् ।
प्रभूतं हि क्षीरं कामयमाना: प्रभूतं घासं धेनुं चारयन्ति ।
ततश्च प्रभूतं क्षीरं लभन्ते ।
तस्मान्न तृणादिवत्स्वाभाविक: प्रधानस्य परिणाम: ॥५॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP