TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

द्वितीयाः पाद: - सूत्र १०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र १०
विप्रतिषेधाच्चासमञ्जसम् ॥१०॥

विप्रतिषेधाच्चासमञ्जसम् ।
परस्परविरुद्धश्चायं सांख्यानामभ्युपगम: ।
क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति क्वचिदेकादश ।
तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति क्वचिदहङ्कारात् ।
तथा क्वचित्रीण्यन्त: करणानि वर्णयन्ति क्वचिदेकमिति ।
प्रसिद्ध एव तु शुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या ।
तस्मादप्यसमञ्जसं सांक्यानां दर्शनमिति । अत्राह ।
नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् ।
एकं हि ब्रम्हा सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यै स्यात् ।
यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् ।
न हयौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते ।
योऽपि जलतरङ्गवीचीफेनाद्युपन्यासस्तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्ष: ।
प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके ।
तथा हयर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते ।
यद्यर्थिन: स्वतोऽन्योऽर्थो न स्याद्यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात् ।
यथा प्रकाशात्मन: प्रदीपस्य प्रकाशाख्योऽर्थों नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति ।
अप्राप्ते हयर्थेऽर्थिनोऽर्थित्वं स्यादिति ।
तथाऽर्थस्याप्यर्थत्वम न स्यात् ।
यदि स्यात्स्वार्थत्वमेव स्यात् ।
न चैतदस्ति । संबन्धिशब्दौ हयेतावर्थी चार्थश्चेति ।
द्वयोश्च संबन्धिनो: संबन्ध: स्यान्नैकस्यैव ।
तस्माद्भिन्नावेतावर्थार्थिनौ ।
तथाऽनर्थानर्थिनावपि ।
अर्थिनोऽनुकूलोऽर्थ: प्रतिकूलोऽनर्थस्ताभ्यामेक: पर्याणोभाभ्यां संबध्येत ।
तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थ एवेति तापक:  स उच्यते ।
तप्यस्तु पुरुषो य एक: पर्यायेणो भाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्ति: ।
जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते । न । एकत्वादेव तप्यतापकभावानुपपत्ते: ।
भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् ।
न त्वेतदस्त्येकत्वादेव ।
न हयग्निरेक: सन्स्वमात्मानं दहति प्रकाशति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च ।
किं कूटस्थे ब्रम्हाण्येकस्मिंस्तप्यतापकभाव: संभवेत् ।
क्व पुनरयं तप्यतापकभाव: स्यादिति ।
उच्यते । किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापक: सवितेति ।
ननु तप्तिर्नाम दु:खं सा चेतयितुर्नाचेतनस्य देहस्य ।
यदि हि देहस्यैव तप्ति स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति ।
उच्यते । देहाभावेऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा ।
न च त्वयापि तप्तिर्नाम विक्रिया चेतयितु: केवलस्येष्यते ।
नापि देहचेतनयो: संहतत्वमशुब्दयादिदोषप्रसङगात् ।
न च तप्तेरेव तप्तिमभ्युपगच्छसि ।
कथं तवापि तप्यतापकभाव: ।
सत्त्वं तप्यं तापकं रज इति चेत् । न ।
ताभ्यां चेतनस्य संहतत्वानुपपत्ते: ।
सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत्परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् ।
न चेत्तप्यते नेवशद्बो दोषाय ।
न हि डुण्डुभ: सर्प इवेत्येतावता सविषो भवति ।
सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति ।
अतश्चाविद्याकृतोऽयं तप्यतपकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति ।
नैवं सति ममापि किंचिद्दुष्यति ।
अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैवसुतरामनिर्मोंक्ष: प्रसज्येत नित्यत्वाभ्युपगमाच्च तापकस्य ।
तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्ते: संयोगनिमित्तादर्शननिवृत्तावात्यन्तिक: संयोगोपरमस्ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् । न ।
अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् ।
गुणानां चोद्भवाभिभवयोरनियतत्वादनियत:  संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्साङ्ख्यस्यैवानिर्मोक्षोऽपरिहार्य: स्यात् ।
औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तोर्विकारभेदस्य च वाचारम्भणमात्रत्वशअवणादनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते ।
व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्य: परिहर्तव्यो वा भवति ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-06T23:00:58.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

konel metal

  • (as an alloy of nickel, cobalt, iron and titanium) कोनेल धातु 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.