द्वितीयाः पाद: - सूत्र ३५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न च पर्यायादप्यविरोधो विकारादिभ्य: ॥३५॥

न च पर्यायादप्यविरोधी विकारादिभ्य: ।
अथ पर्यायेण वृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत ।
तत्राप्युच्यते ।
न च पर्यायादप्यविरोधो विकारादिभ्य: ।
न च पर्यार्येणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते । कुत: ।
विकारादिदोषप्रसङ्गात् ।
अवयवोपगमापगमाभ्यां हयनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् ।
विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत ।
ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति । किंचान्यत् ।
आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानात्मत्वं शरीरादिवत् ।
ततश्चावस्थिता: कश्चिदवयव आत्मेति स्यात् ।
न च स निरूपयितुं शक्यतेऽयमसाविति । किंचान्यत् ।
आगच्छन्तश्चैते जीवावयवा: कुत: प्रादुर्भवन्त्यपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् ।
न हि भूतेभ्य: प्रादुर्भवेयुर्भूतेषु च निलीयेरन्नभौतिकत्वाज्जीवस्य ।
नापि कश्चिदन्य: साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् । किंचान्यत् ।
अनुवधृतस्वरूपश्चैवं सत्यात्मा स्यात् ।
आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् ।
अत एवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोंपगमापगमावात्मन आश्रयितुं शक्येते ।
अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुन: पर्यायेण परिमाणानवस्थानेऽपि स्रोत: संताननित्यतान्यायेनात्मनो नित्यता स्यात् ।
यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्संताननित्यता तद्वद्विसिचामपीत्याशङ्कयानेन सूत्रेणोत्तरमुच्यते ।
संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्ग: ।
वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्ष स्यानुपपत्तिरिति ॥३५॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP