द्वितीयाः पाद: - सूत्र १४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नित्यमेव च भावात् ॥१४॥

नित्यमेव च भावात् ।
अपि चाणव: प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोमयस्वभावा वा‍ऽनुभयस्वभावा वा‍ऽभुपगम्यन्ते गत्यन्तराभावात् ।
चतुर्धापि नोपपद्यते ।
प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्ग ।
निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्ग: ।
उभयस्वभावत्वं च विरोधादसमञ्जसम् ।
अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्यारेभ्युपगम्यमानयोरद्दष्टादेर्निमित्तस्य नित्यसन्निधानान्नित्यप्रवृत्तिप्रसङ्गात् ।
अतन्त्रत्वेऽप्यदृष्टादेर्नित्याप्रवृत्तिप्रसङ्गात् ।
तस्मादप्यनुपपन्न: परमाणुकारणवाद: ॥१४॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP