द्वितीयाः पाद: - सूत्र ३३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नैकस्मिन्नसंभवात् ॥३३॥

नैकस्मिन्नसंभवात् ।
निरस्त: सुगतसमय: । विवसनसमय इदानीं निरस्यते ।
सप्त चैषां पदार्था: संमता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम ।
संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते ।
तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम जीवास्तिकाय: पुद्रलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति ।
सर्वेषामप्येषामवान्तरप्रभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति ।
सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति ।
स्यादस्ति स्यान्नास्ति च नास्ति च स्यादवक्तव्य: स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चावक्तव्यश्चेति एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति ।
अत्राचक्ष्महे ।
नायमभ्युपगमो युक्त इति । कुत: ।
तद्विधानविवक्षयां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोग: स्यात्तन्निषेधे विवक्षिते ॥
क्रमेणोभयवीक्षायां प्रयोग: समुदायवान् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तित: ॥
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भव: ॥
समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते ।
एकस्मिन्नसंभवात् ।
न हयेकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेश: संभवति शीतोष्णवत् ।
य एते सप्त पदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नैव वा तथा स्यु: ।
इतरथा हि तथा वा स्युरतथा वेत्यनिधांरितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् ।
नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति ।
नेति ब्रूम: । नरङ्कुशं हयनेकान्तं सर्ववस्तुपु

प्रतिजानानस्य निर्द्धारणस्यापि वस्तुत्वाविशेषात्स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् ।
एवं निर्द्धारयितुनिर्द्धारणफलस्य च स्यात्पक्षेऽस्तिता स्याच्च पक्षे नास्तितेति ।
एवं सति कथं प्रमाणभूत: संस्तीर्थकर: प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्द्धारितासूपदेष्टुं शक्नुयात्कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ।
ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुल: प्रवर्तते नान्यथा ।
अतश्चानिर्द्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचन: स्यात् ।
तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्याऽस्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे पक्षान्तरे तु न स्यादित्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् ।
न चैषां पदार्थानामवक्तव्यत्वं संभवति ।
अवक्तव्याश्चेन्नोच्येरन् ।
उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् ।
उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च ।
तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा ।
एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्येव स्यान्न प्रत्यायितव्यपक्षस्य ।
स्वर्गापवर्गयोश्च पक्षे भाव: पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्ति: ।
अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्ग ।
एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैवं सत्त्वस्यासंभवादसंगतमिदमार्हतं मतम् ।
एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्या: ।
यत्तु पुदनलसंज्ञकेभ्योऽणुभ्य: संघाता:  संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते ॥३३॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP