द्वितीयाः पाद: - सूत्र ४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥४॥

व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।
साङख्यानां त्रयो गुणा: साम्येनावतिष्ठमाना: प्रधानम् ।
न तु तद्वयतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किंचिदबाहयमपेक्ष्यमवस्थितमस्ति ।
पुरुषस्तूदासीनो न प्रवर्तको न निवर्तक इत्यतोऽनपेक्षं प्रधानमनपेक्षत्वाच्च कदचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम् ।
ईश्चरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते ॥४॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP