द्वितीयाः पाद: - सूत्र १६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उभयथा च दोषात् ॥१६॥

उभयथा च दोषात् ।
गन्धरसरूफस्पर्शगुणा स्थूला पृथिवी ।
रूपरसस्पशगुणा: सूक्ष्मा आप: ।
रूपस्पर्शगुणं सूक्ष्मतरं तेज: ।
स्पर्शगुण: सूक्ष्मतमो वायु: ।
इत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतर सूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते ।
तद्वत्परमाणवोऽप्युपचित्तापचितगुणा: कल्प्येरन्न वा ।
उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात् ।
कल्प्यमाने तावदुपचित्तापचितगुणत्व उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्ग: ।
न चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्यते कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरंस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् । अप्सु रूफस्पयो: ।
पृथिव्यां च रसरूपस्पर्शानाम् ।
कारणगुणपूर्वकत्वात्कार्यगुणानाम् ।
अथ सर्वे चतुर्गुणा एव कल्प्येरंस्ततोऽप्स्वपि गन्धस्योपलब्धि: स्यात्तेजसि गन्धरसयोर्वायौ गन्धरूप रसानाम् ।
न चैवं द्दश्यते । तस्मादप्यनुपपन्न: परमाणुकारणवाद: ॥१६॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP