संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
तिथिविशेषनक्षत्रविशेषवारादौचविधिनिषेधाः ।

धर्मसिंधु - तिथिविशेषनक्षत्रविशेषवारादौचविधिनिषेधाः ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

सप्तम्यांनस्पृशेत्तैलंनीलवस्त्रंनधारयेत् । नचाप्यामलकैः स्नानंनकुर्यात्कलहंनरः १ सप्तम्याम्नैवकुर्वीतताम्रपात्रेणभोजनम् ।

नन्दातिथिष्वभ्यंगोवर्ज्यः रिक्तासुक्षौरंवर्ज्यम्जयासुमांसंशूद्राद्यौर्वर्ज्यम् पूर्णासुस्त्रीवर्ज्या रविवारेऽभ्यङ्गो

भौमवारेक्षौरंबुधेयोषिच्चवर्ज्या चित्राहस्तश्रवणेषुतैलंवर्ज्यम् विशाखाप्रतिपत्सुक्षौरंवर्ज्यम् मघाकृत्तिकाव्युत्तरासुस्त्रीनसेव्या

तिलभक्षणंतिलतर्पणंचसप्तम्यानं नारीकेलमष्टम्यामलाबुनवम्यांपटोलंदशम्यांनिष्पावमेकादश्यांमसूरंद्वादश्यांवार्ताकंत्रयोदश्यांवर्ज्यम् ।

पौर्णिमादर्शसंक्रान्तिचतुर्दश्यष्टमीषुचानरश्चण्डालयौनौस्यात्तैलस्त्रीमांससेवनात् ।

पूर्णिमादर्शसंक्रान्तिद्वादशीषुश्राद्धदिनेचवस्त्रंनपीडयेत् रात्रौमृदंगोमयमुदकंचनाहरेत् गोमूत्रंप्रदोषकालेनगृह्णीयात्

अमादिपर्वस्ववश्यं शान्त्यर्थतिलहोमीसयत् आत्मरक्षणायदानादिकंचकुर्यात् पर्वसुनाधीयीत शौचाचमनब्रह्मचर्यादिसेवीस्यात्

प्रतिपद्दर्शषष्ठीनवमीतिथिषुश्राद्धदिनेजन्मदिनेव्रतेचोपवासेचरविवारेमध्याह्नस्ननसमयेच काष्ठेनदन्तधावनंवर्ज्यम् ।

अलाभेदन्तकाष्ठानांनिषिद्धोपिदिनेतथा । अपांद्वादशगन्डषैः पत्रैर्वासोधयेन्मुखम् १ अत्र सर्वत्रनिषेधेषुतिथ्यादिकंतत्कालव्यापिग्राह्यम्

इतिधर्मसिन्धुसारेतिथ्यादौविधिनिषेधसंग्रहोद्देशस्त्रयस्त्रिंशत्तमः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP