संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथस्मार्तनिर्णयः

धर्मसिंधु - अथस्मार्तनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रसूर्योदयवेधवतीविद्धातद्रहिताशुद्धाचेतिद्विविधापिप्रत्येकंचतुर्धा एकादशीमात्राधिक्यवती उभयाधिक्यवती द्वादशीमात्राधिक्यवती

अनुभयाधिक्यवती अनुभयाधिक्यातीत्येवमष्टभेदाभवन्ति अत्रोदाहरणानि दशमी ५८ एकादशी ६०।१ द्वादश्याः क्षयः ५८ इयंशुद्धा

एकादशीमात्राधिक्यवती ।

दशमी ४ एकादशी २ द्वादश्याः क्षयः ५८ इयंविद्धाएकादशीमात्राधिक्यवती ।

अत्रोभयत्रापिस्मार्तानांगृहिनांपूर्वोपोष्या यतिभिर्निष्कामगृहिभिर्वनस्थैर्विधवाभिर्वैष्णवैश्चपरैवोपोष्या

विष्णुप्रीतिकामैःस्मार्तैरुपवासद्वयंकार्यमिति केचित् उभयाधिक्यवतीविशुद्धा । यथादशमी ५८ एकादशी ६०। द्वादशी ४

उभयाधिक्यवतीविशुद्धा ।

यथा दशमी २ एकादशी ३ द्वादशी ४ अत्रोभयत्रापिसर्वैः स्मार्तैर्वैष्णवाश्चावशिष्टापारैवैकादशी उपोष्या

द्वादशीमात्राधिक्यवतीशुद्धा यथा दशमी ५८ एकादशी ५९ द्वादशी ६०।१

अत्रशुद्धत्वात्स्मार्तानामेकादस्यामेवोपवासोनद्वादश्यामितिमाधवमतम्

हेमाद्रिमतेतुसर्वैःपराद्वादश्येवोपोष्या केचित्तुमुमुक्षुभिःस्मार्तैः परोपोष्येत्याहुः द्वादशीमात्राधिकाविद्धा यथा दशमी १

एकादशीक्षयगामिनी ५८ द्वादश्यावृद्धिः ६०।१

अत्रैकादश्याविद्धेत्वात् द्वादश्यामेव स्मार्तानामप्युपवासः

एवंचोभयाधिक्येद्वादशीमात्राधिक्येचस्मार्तानांविद्धायास्त्यागोनान्यत्रवैष्णवानांतुषङ्विधामप्याधिक्यावतीत्यक्त्वाद्वादश्युपोष्याअनुभयाधिक्यवतीशुद्धा ।

यथा दशमी ५७ एकादशी ५८ द्वादशी ५९ स्मार्तानामेकादश्यामेवोपवासोनद्वादश्याम् वैष्णवानांद्वादश्यामुपवासः

अस्मिन्नुभयानाधिक्यवतीविद्धाचरमभेदे प्रथमभेदद्वयेइवयतिभिर्मुमुक्षुभिर्विधवाभिःपरोपोष्य

विष्णुप्रीतिकामैरुपवासद्वयंकार्यमितितुल्ययुक्त्याप्रतिभाति

इदानींशिष्टास्तुहेमाद्रिमंतनिष्कामत्वादिकंचानादृत्यमाधवमतेनैवसर्वस्मार्तनिर्णयमविशेषेणवदन्तिनतुक्वचिदुपवासद्वयंशुद्धाधिकद्वदशिकायां

सर्वेषामेकंपरोपवासंवावदन्ति इतिसर्वत्रदेशेषुप्रायोमाधवोक्तानुसारएवप्रचारइतिबोध्यम्

एतेनवैष्णवाष्टादशभेदानांस्मार्ताष्टादशभेदानांचनिर्णयः ।

सर्वोपिगतार्थोभवतीतिविभावनीयम् विस्तरस्तुमहाग्रन्थेष्वनुसंधेयः

अत्राष्टादशभेदानांपृथक्‌पृथगुदाहरणकथनेतन्निर्णयकथनेचबालानांव्यामोहमात्रंस्यादितिसनिर्णयः ।

पृथगेवपट्टेलिखित्वास्थापितोनुसंधेयः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP