संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
तत्रवर्ज्यावर्ज्यनिर्णय

धर्मसिंधु - तत्रवर्ज्यावर्ज्यनिर्णय

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अनन्यगतिकंनित्यंनैमित्तिकंकाम्यंच अधिकमासक्षयमासयोःकर्तव्यम् सगतिकंनित्यंनैमित्तिकंकाम्यंचवर्ज्यम् तथाहि संध्याग्निहोत्रादिनित्यं

ग्रहणस्नानादिनैमित्तिकं कारीर्यादिकंरक्षोगृहीतजीवनर्थरक्षोघ्नेष्ट्यादिकंचकाम्यंमलमासेऽपिकार्यम्ज्योतिष्टोमादिनित्यंजातेष्ट्यादिनैमित्तिकं

पुत्रकामेष्ट्यादिकाम्यंचमलमासोत्तरशुद्धमास्येवकर्तव्यम् आरब्धकाम्यस्यमलमासेप्यनुष्ठानम् नूतनारम्भःसमाप्तिश्चनकर्तव्या तथा

पूजालोपादिनिमित्तकपुनर्मूर्तिप्रतिष्ठां गर्भाधानाद्यन्नप्राशनान्तसंस्कारान्प्राप्तकालाननन्यगतिकान् ज्वरादिरोगशांतिमलभ्ययोगेश्राद्धव्रतादिकं

नैमित्तिकप्रायश्चित्तं नित्यश्राद्धमूनमासिकादिश्राद्धानि दर्शश्राद्धंच मलेपिकुर्यात् चैत्रादौमलमासे मृतानांकदाचिद्वहूकालेनतस्मिन्नेवचैत्रादौमलामासे

प्राप्तेमलमासएवप्रतिसांवत्सरिकंश्राद्धं कर्तव्यम् चैत्रादौशुद्धमासेमृतानांतुप्रत्याब्दिकंश्राद्धं मलमासेनकर्तव्यम् शुद्धे एवचैत्रादौकर्तव्यम्

शुद्धमासेमृतानांतुप्रथमाब्दिकं मलमासएवकार्यनशुद्धे द्वितीयाब्दिकंतुशुद्ध एव एकादशाहान्तकर्मसपिण्डीकर्मच मलेपिकार्यम् द्वितीय

मासिकादिश्रांद्धतुमलेशुद्धेचावृत्त्याद्विवारंकर्तव्यम् एव च यत्रद्वादशमासिकमधिकमासेप्राप्ततस्यमलेशुद्धे च द्विरावृत्तिकृत्वा ऊनाब्दकालेऊनाब्दिकंचकृत्वा

चतुर्दशेमासेप्रथमाब्दिकंकार्यम् यस्मिन्वर्षेक्षयमासाव्यवहितोऽधिकमासःयथा

कार्तिकोधिमासस्तदुत्तरोमासोवृश्चिकधनुःसंक्रान्तियुक्तत्वात्क्षयसंज्ञकस्तत्रकार्तिकमासस्थंप्रत्याब्दिकं पूर्वेऽधिमासेउत्तरेक्षयमासेचकार्यम् यत्रापिक्षयाद्व्यवहि

तपूर्वोधिमासोयथाऽऽश्विनोधिमासोमार्गशीर्षः क्षयस्तत्रापि आश्विनमासगतश्राद्धमधिकेशुद्धेच आश्विनेकार्यं द्वयोरपिकर्मार्हत्वादितिभाति

व्यवहितक्षयमासगतंत्वाब्दिकंक्षयमासएवकार्यम् तथाच पूर्वोक्तेमार्गशीर्षक्षयोदाहरणेमार्गशीर्षगतंपौषगतंचाब्दिकमेकस्मिन्नेवमासे

तिथिपूर्वार्धादिविभागं विनैवकार्यमितिफलितम् ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP