संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
एकादश्यांनियमाः

धर्मसिंधु - एकादश्यांनियमाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

पाखण्डिसंभाषणस्पर्शदर्शनवर्जनंब्रह्मचर्यसत्यभाषणदिवास्वापवर्जनादयः परिभाषोक्ताश्चज्ञेयाः पाखण्डिदर्शनादौतुसूर्यपश्येत्ततः

शुचिः संस्पर्शेनबुधःस्नानाच्छुचिरादित्यदर्शनात् १ संभाष्यतानशुचिषदंचिन्तयेदच्युतबुधः । इत्यादिप्रायश्चित्तम्

उपवासादिनेश्राद्धप्राप्तौश्राद्धशेषसर्वान्नेनैकंपात्रंपरिविष्यतत्सर्वान्नावघ्राणंकृत्वापात्रंगवादिभ्योदेयम् कन्दमूलफलाहाराद्यनुकल्पेनोवासकर्त्रा

तुस्वभक्ष्यस्यैवफलादेः पितृब्राह्मणपात्रेषुपरिवेषणपूर्वकंतच्छेषभक्षणं कार्यम् एकादश्यांयदाभूपमृताहः स्यात्कदाचन ।

तद्दिनंतु परित्यज्यद्वादश्यामेवकारयेत् १ इन्यादिवचनानियथाचारंवैष्णवपराणि वैष्णवैः

षोडशमहालयकरणपक्षेएकादश्यधिकरणकंद्वादश्यधिकरणकंचमहालयंतन्त्रेण करिष्येइति संकल्प्यमहालयद्वयंद्वाद्वादश्यांकार्यं

काम्योपवासेसूतकप्राप्तौशारीरनियमान्स्वयंकृवासूतकान्तेपूजादानब्राह्मणभोजनादिकंकार्यम् नित्योपवासे

सूतकादिप्राप्तौस्नात्वाहरिंप्रणम्यनिराहारादिकंस्वयंकृत्वापूजादिकंब्राह्मणद्वारा कार्यम् दानदेर्लोपो न

सूतकान्तेऽनुष्ठानावश्यकत्वम् एवंरजस्वलादिदोषेपि द्वादश्यांप्रातर्नित्यपूजांविधायभगवतेव्रतमर्पयेत् ।

अज्ञानतिमिरान्धस्यव्रतेनानेनकेशव । प्रसीदसुमुखोनाथज्ञानदृष्टिप्रदोभव ॥१॥

इतितत्रमन्त्रः दशम्यादिषूक्तानांनियमानांभङ्गेदिवास्वापेबहुशोजलपानेमिथ्याभाषणेवा

तत्तन्नियमभङ्गानुद्दिश्यनारायणाष्टाक्षरमन्त्रजपमष्टोत्तरशतसंख्ययाकुर्यात् अल्पदोषे नामशतत्रयजपः

रजस्वलाचाण्डालरजकसूतिकदिशब्दस्यव्रतमध्येश्रवणेऽष्टोत्तरसहस्त्रगायत्रीजपः ततोनैवेद्यौलसीमिश्रितान्नेनपारणंकार्यम्

आमलकीफलस्य पारणायांभक्षणेऽसंभाष्यभाषणादिदोषनाशः पारणंचद्वादश्यूल्लङ्घनेमहादोषाद्‍द्वादशीमध्येएवकार्यम्

स्वल्पद्वदशीसत्त्वे रात्रिशेषेआमाध्याह्नान्ताः क्रियाः सर्वा अपकृष्यकार्याः अग्निहोत्रहोमस्यनापकर्षइतिकेचित्

एवंश्राद्धस्यापिनापकर्षोरात्रौश्राद्धनिषेधात् अतिसंकटेश्राद्धेप्रदोषादिव्रतेचतीर्थजलेनपारणंकार्यम

द्वादशीभूयस्त्वेद्वादशीप्रथमपादंहरिवासरसंज्ञकमुल्लङ्घ्यपारणं कार्यम् कलामात्रायाअपिद्वादश्याअभावे

त्रयोदश्यांपारणम् द्वादश्यामध्याह्नोर्ध्वंसत्वे प्रातर्मुहुर्तत्रयमध्येएवपारणम् न मध्याह्नादौइतिबहवः

बहूनांकर्मकालानांबाधापत्तेरपराह्नएवेतिकेचित् द्वादश्यांसर्वमासेषुशुक्लायांकृष्णायांवौश्रवणयोगेशक्तेनैकादशीद्वादश्योर्द्वयोरप्युवासःकार्यः

अशक्तेनैकादश्यांफलाहाराद्यनुकल्पं कृत्वाश्रवणद्वादश्यामुपवासः कार्यः विष्णूशृङ्खलयोगसत्वेतु एकादश्यामेव

श्रवणद्वादशीप्रयुक्तमप्युवासंकृत्वाद्वादश्याश्रवणयोगरहितायांपारणे कार्यम् द्वादश्याः श्रवणतोन्यूनत्वश्रवणयुक्तायामपिद्वादश्यामेवपारणम्

द्वादश्यलुङ्घने दोषात् विष्णुशृङ्खलयोगादिनिर्णयोबाद्रपदमासगतश्रवणद्वादशीप्रकरणेवक्ष्यते दिवानिद्रांपरान्नंच पुनर्बोजनमैथुने ।

क्षौद्रकांस्यामिषंतैलंद्वादश्यामष्टवर्जयेत् १

द्यूतक्रोधचणककोद्रवमाषतिलपिष्टमसुरनेत्राञ्जनमिथ्याभाषणलोभायासप्रवासभारवहनाध्ययनताम्बूलादीनिवरजयेत्

एतेचनियमाःकाम्यव्रतेआवश्यकाः नित्यव्रतेतु शक्तिमांस्तुपुमान्कुर्यान्नियमंसविशेषणम् । विशेषनियमाशक्तोहोरात्रंभुजिवर्जितः १

निगृहीतेन्द्रियः श्रद्धासहायोविष्णुतत्परः । उपोष्यैकादशीपापान्मुच्यतेनात्रसंशयः १ अन्यंभुङ्‌क्ष्वेतियोब्रूयाद्भुक्तेवायः सनारकी ।

एकादशीव्रताद्विष्णुसायुज्यंलभतेश्रियम् १ इत्येकादशीव्रतनिर्णयः कार्यान्तरेष्वेकादशिद्वादशीयुतैवग्राह्या इत्येकादशीनिर्णयोद्देशः

सप्तदशः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP