संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथपिण्डपितृयज्ञकालः

धर्मसिंधु - अथपिण्डपितृयज्ञकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

तत्राश्वलायनानींयस्मिन्नहोरात्रेअमावास्याप्रतिपदोःसंधिस्तद्दिनापराह्णेपञ्चधाविभक्तदिनचतुर्थभागरूपेपिण्डपितृयज्ञः

सचापराह्णसंधावन्वाधानदिनेभवति मध्याह्नेपूर्वाह्णेवासंधौयागदिने यागोत्तरमपराह्णेभवति ।

यदाहोरात्रसंधौतिथिसंधिस्तदान्वाधानदिनेएवपिण्डपितृयज्ञः एवमापस्तम्बहिरण्यकेशिमतानुसारिनामपिसंधिदिनेएवपितृयज्ञः

सचापराह्णेऽधवृक्षसूर्येवाकार्यः अपराह्णश्चपञ्चधाविभक्तदिनचतुर्थभागोनवाधाविभक्तदिनसप्तमभागोवा

सांख्यायनकात्यायनसामगानामन्वाधानदिनेएवपिण्डपितृयज्ञः पूर्वमेवोक्तः सचत्रेधाविभक्तदिनतृतीयभागरूपेपराह्णेकार्यः

गृह्याग्निमतांबह्‌वृचानांदर्शश्राद्धपिण्डपितृयज्ञयोरेकस्मिन्दिनेप्राप्तौ व्यतिषङ्गेणानुष्ठानम् व्यतिषङ्गोनामोभयोः

सहप्रयोगः खण्डपर्वणितुपूर्वेद्युः केवलदर्शश्राद्धमुत्तरेह्निकेवलः पिण्डपितृयज्ञः श्रौताग्निमतांतुकेवलः

पिण्डपितृयज्ञएवदक्षिणाग्नौकार्योनव्यतिषङ्गेण श्रौताग्निमतासंपूर्णेदर्शे इत्थंक्रमः आदावन्वाधानंततो वैश्वदेवस्ततः

पिण्डपितृयज्ञस्ततोदर्शश्राद्धमिति अस्मिन्नेवकालेजीवन्पितृकेणसाग्निकेनहोमान्तेवा पितुः पित्रादित्रयोद्देशेनपिण्डसहितोवा

पिण्डपितृयज्ञःकार्यःयद्वा पिण्डपितृयज्ञोनैवारब्धव्यः इष्टिलोपेपादकृच्छ्रंप्रायश्चित्तम् इष्टिद्वयलोपेऽर्द्धकृच्छ्रम्

इष्टित्रयलोपेअग्निनाशात्पुनराधानम् पिण्डपितृयज्ञलोपेवैश्यानरोष्टिःप्रायश्चित्तम्

इष्टिस्थानेसप्तहोतारंहोष्यामीतिसंकल्प्यतन्मन्त्रेणचतुर्गृहीताज्येनपूर्णाहुतिर्वीकार्या

इति पिण्डपितृयज्ञोद्देशः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP