संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
स्वतंत्राणानिर्णयउच्यते

धर्मसिंधु - स्वतंत्राणानिर्णयउच्यते

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रदिनंपञ्चधाविभज्यप्रथमंभागःप्रातःकालोज्ञेयः द्वितीयःसङ्गवः तृतीयोमध्याह्नः चतुर्थोभागोऽपराह्णः पञ्चमःसायाह्नः

सूर्यास्तोत्तरंत्रिमुहूर्तःप्रदोषः तत्रैकभुक्तेमध्यान्हव्यापिनीतिथिर्ग्राह्या

तत्रापिदिनार्धसमयेऽतीतेत्रिंशद्धटिकात्मकमध्यमदिनमानेनषोडशादिघटीत्रयंमुख्योभोजनकालः

ततऊर्ध्वमासायंगौणकालः अत्रपूर्वेद्युरेवमुख्यकालेव्याप्तिः परेद्युरेवव्याप्तिरुभयेद्युर्ब्याप्तिरुभयात्रापिव्याप्त्यभावः

उभयत्रसाम्येनैकदेशव्याप्तिरित षट्‌पक्षाभवनि तत्रपूर्वेद्युरेवमुख्यकालेग्राह्यतिथिसत्त्वेपूर्वैद परर्त्रैवसत्वेपरैवेत्यसंदेहः

उभयत्रापिपूर्णव्यापित्वेयुग्मवाक्यान्निर्णयः उभयत्रव्याप्त्यभावेपूर्वैव गौणकालव्याप्तिसत्त्वात साम्येनैकदेशव्याप्तौपूर्वा

वैषम्येणैकदेशव्याप्तौदिनद्वयेषिकर्मपर्याप्ततिथिलाभेयुग्मवाक्यान्निर्णयः कर्मपर्याप्ततिथ्यलाभेपूर्वैवेति इतिएकभुक्तम्

N/A

References : N/A
Last Updated : April 20, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP